[Advaita-l] [advaitin] PTB parayan - advice requested

V Subrahmanian v.subrahmanian at gmail.com
Mon Jul 13 14:11:01 EDT 2026


Please access the audio here:
https://groups.google.com/g/advaitin/c/ZJnORg1iOUE

On Mon, Jul 13, 2026 at 11:32 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> Dear Raghav Ji,
>
> I tried a Sutra Bhashya passage:
>
> कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः —
>
> हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
>  द्विरूप
> सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते;
> आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम् । न ह्यञ्जसा अतिमात्रस्य
> परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते । न चान्यः परमात्मन इह ग्रहणमर्हति
> ईशानशब्दादिभ्य इत्युक्तम् । ननु प्रतिप्राणिभेदं
> हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत
> उत्तरमुच्यते — मनुष्याधिकारत्वादिति । ‘शास्त्रं ह्यविशेषप्रवृत्तमपि
> मनुष्यानेवाधिकरोति; शक्तत्वात् , अर्थित्वात् , अपर्युदस्तत्वात्
> उपनयनादिशास्त्राच्च — इति वर्णितमेतदधिकारलक्षणे’ (जै. सू. ६ । १) ।
> मनुष्याणां च नियतपरिमाणः कायः; औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं
> हृदयम् । अतो मनुष्याधिकारत्वाच्छास्त्रस्य
> मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः । यदप्युक्तम् —
> परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति;
> तत्प्रत्युच्यते — ‘स आत्मा तत्त्वमसि’ इत्यादिवत् संसारिण एव
> सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति । द्विरूपा हि
> वेदान्तवाक्यानां प्रवृत्तिः — क्वचित्परमात्मस्वरूपनिरूपणपरा;
> क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा । तदत्र विज्ञानात्मनः
> परमात्मनैकत्वमुपदिश्यते; नाङ्गुष्ठमात्रत्वं कस्यचित् । एतमेवार्थं परेण
> स्फुटीकरिष्यति — ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये
> सन्निविष्टः । तं *स्वा*च्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं
> विद्याच्छुक्रममृतम्’ (क. उ. २ । ३ । १७)
> <https://advaitasharada.sringeri.net/display/bhashya/Kathaka/devanagari?page=2&id=Ka_C02_S03_V17&hl=%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%83%20%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A5%8B%E0%A4%BD%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%20%E0%A4%B8%E0%A4%A6%E0%A4%BE%20%E0%A4%9C%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82%20%E0%A4%B9%E0%A5%83%E0%A4%A6%E0%A4%AF%E0%A5%87%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%83%C2%A0%E0%A5%A4%20%E0%A4%A4%E0%A4%82%20%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%B0%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A5%87%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A5%81%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%B7%E0%A5%80%E0%A4%95%E0%A4%BE%E0%A4%82%20%E0%A4%A7%E0%A5%88%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%A3%C2%A0%E0%A5%A4%20%E0%A4%A4%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%AE%E0%A5%8D> इति
> ॥ २५ ॥
> The audio rendering skipped letters in two places, one I have highlighted
> above. Here's the link to the audio. Please follow closely and point out
> any other thing that needs repair.
>
> I don't know if it can be improved. It's nice to hear.  The voice sounds
> like that of Dr. Pratosh, as I have heard him speak at various venues.
> I think our people can use this tool by giving ample credit to it.
> Warm regards
> subbu
>
>
>>


More information about the Advaita-l mailing list