[Advaita-l] Is Badarayana same as Vyasa?

Praveen R. Bhat bhatpraveen at gmail.com
Mon Jul 23 22:13:58 EDT 2018


#वस्तुकल्पनामपि


On Tue, Jul 24, 2018 at 7:42 AM Praveen R. Bhat <bhatpraveen at gmail.com>
wrote:

> नमस्काराः महोदय।
>
> यस्य कोऽपि गुरुर्नास्ति, तस्य आधारोऽपि नास्ति येन स वस्तुकल्पनापि
> कुर्यात्। सैव आकाशात्पतिता = स्वकपोलकल्पिता। सम्प्रदाये तु न तथा। सर्वस्यां
> सम्प्रदायप्रार्थनायां दृश्यते सम्प्रदायकर्ता आदिगुरुस्तु स्वयमीश्वर एवेति,
> दक्षिणामूर्तिरूपेण भवतु वा नारायणेन वा। तेन पाठितं यथा तथा भाष्येषु
> प्रपञ्चिता अर्थाः वर्तन्ते।
>
> किञ्च, स्वकपोलकल्पितस्य फलं मोक्षः भवितुं नार्हति। करोतु कल्पनां यथेच्छम्
> यतः स्वतन्त्रः कर्ता। अस्तु।
>
> गुरुपादुकाभ्याम्,
> --प्रवीणभट्टः।
> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। */
>
>
> On Tue, Jul 24, 2018 at 5:44 AM D.V.N.Sarma డి.వి.ఎన్.శర్మ <
> dvnsarma at gmail.com> wrote:
>
>> भष्येषु प्रपञ्चिताः संप्रदायअर्था अपि कस्यचितद्व्यक्तेः स्वकपोलकल्पिता
>> एव। आकाशान्नपतितास्ते। पुराणमित्येव न साधु सर्वम्।
>>
>> regards,
>> Sarma.
>>
>> 2018-07-23 12:42 GMT+05:30 Praveen R. Bhat via Advaita-l <
>> advaita-l at lists.advaita-vedanta.org>:
>>
>>>  नमस्काराः।
>>>
>>> On Sun 22 Jul, 2018, 23:17 D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l, <
>>> advaita-l at lists.advaita-vedanta.org> wrote:
>>>
>>> > आयन शब्दः प्रायशः अपत्यार्थे विनियुक्तं भवति। यदि बादरायणः बादरेरपत्यं
>>>>>> > कथं पराशररस्यापत्यं भवति।
>>> >
>>>
>>> ​तस्मादपत्यमित्यर्थो नास्त्यत्र। ​
>>> योगिकार्थाद्रूढ्यर्थो
>>>  बलीयान्। किञ्चात्र अयनशब्दो वर्तते न तु आयनशब्दः।​
>>>
>>>>>>
>>> > 2018-07-22 20:09 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <
>>> dvnsarma at gmail.com
>>> > >:
>>> >
>>> > > जैमिन्याः मीमांसा सूत्रे बादरि नामकः आचार्योऽस्ति। बादरायणः
>>> तस्यापत्यं
>>> > > भवितुं शक्नोति।
>>> > >
>>> >
>>>
>>> ​न तथा पराशरात्मनजमिति वचनात्।
>>>
>>> On Sun, Jul 22, 2018 at 9:07 PM D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l
>>> <
>>> advaita-l at lists.advaita-vedanta.org> wrote:
>>>
>>> > यदि वयं सर्वदा संप्रदायस्य अथवा सिद्धान्तपक्षस्य शुकानुवादं कुर्मः,
>>> > नूतनविषयान् वा सत्यं कथं जानीमः। संदेहः करणीयः। संदेहादेव
>>> सत्यमाविष्कृतं
>>> > भवति।
>>> >
>>>
>>> ​स्वकपोलकल्पिताः बह्वर्थाः शक्यन्ते। तैः किम्? तेषां प्रयोजनं संशये एव
>>> भवति
>>> न तु निश्चये। तात्पर्यनिश्चयस्तु सर्वविषयेषु लौकिके वा शास्त्रीये वा
>>> तत्तत्सम्प्रदाये
>>> एव लभते। संशयात्मा विनश्यति, श्रद्धावान् लभते ज्ञानमिति वचनाभ्यामपि।
>>> अत
>>> ​ एवोक्तम् असम्प्रदायवित्मुर्खवदुपेक्षणीय इति।​
>>>
>>>
>>> गुरुपादुकाभ्याम्।
>>> प्रवीणभट्टः।
>>> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। */ ​
>>> _______________________________________________
>>> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
>>> http://blog.gmane.org/gmane.culture.religion.advaita
>>>
>>> To unsubscribe or change your options:
>>> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>>
>>> For assistance, contact:
>>> listmaster at advaita-vedanta.org
>>>
>>
>>


More information about the Advaita-l mailing list