[Advaita-l] Is Badarayana same as Vyasa?

Praveen R. Bhat bhatpraveen at gmail.com
Mon Jul 23 22:12:56 EDT 2018


नमस्काराः महोदय।

यस्य कोऽपि गुरुर्नास्ति, तस्य आधारोऽपि नास्ति येन स वस्तुकल्पनापि कुर्यात्।
सैव आकाशात्पतिता = स्वकपोलकल्पिता। सम्प्रदाये तु न तथा। सर्वस्यां
सम्प्रदायप्रार्थनायां दृश्यते सम्प्रदायकर्ता आदिगुरुस्तु स्वयमीश्वर एवेति,
दक्षिणामूर्तिरूपेण भवतु वा नारायणेन वा। तेन पाठितं यथा तथा भाष्येषु
प्रपञ्चिता अर्थाः वर्तन्ते।

किञ्च, स्वकपोलकल्पितस्य फलं मोक्षः भवितुं नार्हति। करोतु कल्पनां यथेच्छम्
यतः स्वतन्त्रः कर्ता। अस्तु।

गुरुपादुकाभ्याम्,
--प्रवीणभट्टः।
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। */


On Tue, Jul 24, 2018 at 5:44 AM D.V.N.Sarma డి.వి.ఎన్.శర్మ <
dvnsarma at gmail.com> wrote:

> भष्येषु प्रपञ्चिताः संप्रदायअर्था अपि कस्यचितद्व्यक्तेः स्वकपोलकल्पिता एव।
> आकाशान्नपतितास्ते। पुराणमित्येव न साधु सर्वम्।
>
> regards,
> Sarma.
>
> 2018-07-23 12:42 GMT+05:30 Praveen R. Bhat via Advaita-l <
> advaita-l at lists.advaita-vedanta.org>:
>
>>  नमस्काराः।
>>
>> On Sun 22 Jul, 2018, 23:17 D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l, <
>> advaita-l at lists.advaita-vedanta.org> wrote:
>>
>> > आयन शब्दः प्रायशः अपत्यार्थे विनियुक्तं भवति। यदि बादरायणः बादरेरपत्यं स
>> > कथं पराशररस्यापत्यं भवति।
>> >
>>
>> ​तस्मादपत्यमित्यर्थो नास्त्यत्र। ​
>> योगिकार्थाद्रूढ्यर्थो
>>  बलीयान्। किञ्चात्र अयनशब्दो वर्तते न तु आयनशब्दः।​
>>
>>>>
>> > 2018-07-22 20:09 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <
>> dvnsarma at gmail.com
>> > >:
>> >
>> > > जैमिन्याः मीमांसा सूत्रे बादरि नामकः आचार्योऽस्ति। बादरायणः तस्यापत्यं
>> > > भवितुं शक्नोति।
>> > >
>> >
>>
>> ​न तथा पराशरात्मनजमिति वचनात्।
>>
>> On Sun, Jul 22, 2018 at 9:07 PM D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l <
>> advaita-l at lists.advaita-vedanta.org> wrote:
>>
>> > यदि वयं सर्वदा संप्रदायस्य अथवा सिद्धान्तपक्षस्य शुकानुवादं कुर्मः,
>> > नूतनविषयान् वा सत्यं कथं जानीमः। संदेहः करणीयः। संदेहादेव सत्यमाविष्कृतं
>> > भवति।
>> >
>>
>> ​स्वकपोलकल्पिताः बह्वर्थाः शक्यन्ते। तैः किम्? तेषां प्रयोजनं संशये एव
>> भवति
>> न तु निश्चये। तात्पर्यनिश्चयस्तु सर्वविषयेषु लौकिके वा शास्त्रीये वा
>> तत्तत्सम्प्रदाये
>> एव लभते। संशयात्मा विनश्यति, श्रद्धावान् लभते ज्ञानमिति वचनाभ्यामपि।
>> अत
>> ​ एवोक्तम् असम्प्रदायवित्मुर्खवदुपेक्षणीय इति।​
>>
>>
>> गुरुपादुकाभ्याम्।
>> प्रवीणभट्टः।
>> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। */ ​
>> _______________________________________________
>> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>
>


More information about the Advaita-l mailing list