[Advaita-l] Atmabheda niroopanam Lecture by Dr K S Maheswaran - Tamil

V Subrahmanian v.subrahmanian at gmail.com
Wed May 24 02:11:44 EDT 2023


In this talk, the speaker says: With regard to the status of Hiranyagarbha,
whether he belongs to the jiva category or he is in the Ishwara category,
even Bhagavatpada seems not certain, for he says:

In the Brihadaranyaka.Up. 1.4.6. Bhashyam there is a discussion on the
status of Hiranyagarbha, also known as Brahma, Prajapati, etc:


अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु
मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति
श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ ।
३) इति च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’
(मनु. १२ । १२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १ । ७) इति च । संसार्येव वा
स्यात् — ‘सर्वान्पाप्मन औषत्’ (बृ. उ. १ । ४ । १) इति श्रुतेः ; न
ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; भयारतिसंयोगश्रवणाच्च ; ‘अथ यन्मर्त्यः
सन्नमृतानसृजत’ (बृ. उ. १ । ४ । ६) इति च, ‘हिरण्यगर्भं पश्यत जायमानम्’
(श्वे. ४ । १२) इति च मन्त्रवर्णात् ; स्मृतेश्च कर्मविपाकप्रक्रियायाम् —
‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां
गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति । अथैवं विरुद्धार्थानुपपत्तेः
प्रामाण्यव्याघात इति चेत् —


न, कल्पनान्तरोपपत्तेरविरोधात् ।
उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते । ‘आसीनो दूरं व्रजति शयानो
याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १ । २ ।
२१)इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम् , न परमार्थतः ।
स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् ,
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति श्रुतेः ।
हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः
प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां
तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते ।
व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः
॥

Here is a translation of the Bhashya in English:

https://hinduism.stackexchange.com/questions/22851/should-prajapati-lord-brahma-be-regarded-as-a-supreme-self-or-a-transmigrating/24926#24926

Anandagiri says for the highlighted line: कस्तर्हि हिरण्यगर्भे विशेषो
येनासावस्मदादिभिरुपास्यते तत्राह – हिरण्यगर्भस्त्विति | ननु
श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते, सत्यं तत्तु
कल्पितमित्यभिप्रायेणाह – संसारित्वं त्विति |

Translation/gist: What excellence is there in Hiranyagarbha that makes him
worthy of worship* by beings such as we? The reply is as stated by
Shankara:हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति
श्रुतिस्मृतिवादाः प्रवृत्ताः । [Hiraṇyagarbha, possessing limiting adjuncts
of extraordinary purity, is described by the Śrutis and Śmṛtis mostly as
the Supreme Self]. Objection: In the scriptures sometimes he is spoken of
as samsarin? Reply: That is true, but that is a concoction.


I had discussed this some years ago here:

https://adbhutam.wordpress.com/2018/03/10/the-status-of-hiranyagarbha-as-per-shankara-and-others/



On Tue, May 23, 2023 at 3:45 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
>
> https://youtu.be/UUOhMWueGss
>


More information about the Advaita-l mailing list