[Advaita-l] ***UNCHECKED*** Re: Re: [advaitin] rope has some problem in rope snake analogy :-)

Sudhanshu Shekhar sudhanshu.iitk at gmail.com
Fri Dec 29 13:12:47 EST 2023


Namaste Venkat ji.

1. Please also share your view on PanchapAdikA reference mentioned by me.

2. In reflection of redness-of-crystal in mirror, as quoted in AS, as a
proof of reflection in medium having different order of reality --- there
also, you would limit the example to only those cases where red flower is
not visible? Even though AS does not mention anything of that sort
anywhere. AS just plainly quotes that look, the reflection of mithyA
redness-of-crystal happens in vyAvahArika mirror. So, there you would add
this condition that red flower is not visible?

3. Is there any place other than VP where this idea is mentioned of
non-anirvachanIya-khyAti in case there is indriya-sannikarsha?

----------------

I will quote the commentary on VP by Panchanan Shastri ji:-

वस्तुतस्तु जवाकुसुमद्वारेन्द्रियसम्बद्धस्य लौहित्यस्य स्फटिके
संसर्गज्ञानाभ्युपगमेऽन्यथाख्यातिरेव स्यान्नानिर्वचनीयख्यातिः । न चारोप्य
सन्निकर्षस्थलेऽन्यथाख्यातिरेव, नानिर्वचनीयख्यातिरिति वाच्यम्, तथा सति
रजतादाविदन्त्वसंसर्गस्य शङ्खादौ पीततासंसर्गस्यात्मन्यन्तःकरणधर्मसंसर्गस्य
चाध्यासाभावप्रसङ्गात्, #पञ्चपादिकादिग्रन्थविरोधप्रसङ्गाच्च, तैः
#स्फटिकलौहित्यस्य #मिथ्यात्वाभ्युपगमात् ।

तथा चोक्तं पञ्चपादिकायाम् --“तेनान्तःकरणोपरागनिमित्तं
मिथ्यैवाऽहंकर्त्तृत्वमात्मनः स्फटिकमणेरिवोपधाननिमित्तो लोहितिमे”ति । विवरणे
च – “ #मिथ्यात्वं #स्फटिकलौहित्यस्य क्लृप्तप्रतीतिसत्तयोः कारणाभावादि”ति ।
किञ्च यत्रेव यत् सन्निकृष्टं तत्रैव तत् प्रतिभासतामन्यत्र तत्प्रतिभासस्तु
कथम् ? न ह्येकत्र सन्निकृष्ठस्यान्यत्र प्रतिभासो दृष्टचरः सोपपत्तिको
वाऽतिप्रसङ्गात्। लौहित्यञ्च जवासन्निकृष्टं जवायां प्रतिभासताम्, स्फटिके
तत्-प्रति- भासस्तु कथम् ? न हि लौहित्यं स्फटिके नयनसन्निकृष्टम् । यदि
दुष्टेन्द्रियबलात् स्फटिके तत्प्रतिभास इत्युच्येत तर्हि रजतस्यापि
तद्बलाच्छुक्तौ प्रतिभाससम्भवेऽनिर्वचनीयख्यातिर्दत्तजलाञ्जलितामीयात् । तथा
चोक्तं तन्त्रवार्त्तिके – “प्रसरं न लभन्ते हि यावत् क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे" || इति ।

#तस्मादारोप्यसन्निकर्षस्थलेऽपि स्फटिके #लौहित्यान्तरं
#प्रातिभासिकमभ्युपगमनीयम् ।

Regards.


More information about the Advaita-l mailing list