[Advaita-l] Fwd: In the Vayu Purana, Trimurti and All Devata Taratamya (hierarchy) is criticized for their discrimination

V Subrahmanian v.subrahmanian at gmail.com
Fri Apr 7 03:49:13 EDT 2023


In the Vayu Purana, Trimurti and All Devata Taratamya (hierarchy) is
criticized for their discrimination
In this chapter, giving many examples, it is stated that the same Tattva
appears as the Trimurti-s, based on the sattva, rajas and tamas qualities
and performs different functions, and those who search for who is superior
and who is less among the Trimurtis will have the worst birth.
वायुपुराणम्/उत्तरार्धम्/अध्यायः ५
https://sa.wikisource.org/s/5o4
<https://sa.wikisource.org/s/5o4?fbclid=IwAR2X1TPwm9wgHCZAmiKx-rdOYPg1q8wJquS6r0kDOR4TC9HW3rK5SZ3WIFM>
।सूत उवाच।।
अत्र वो वर्णयिष्येहमन्तरन्तेषु यत् स्मृतम्।
यद्ब्रह्मविष्णुरुद्राणां श्रृणुध्वं मे विवक्षतः ।। ५.८५ ।।
राजसी तामसी चैव सात्त्विकी चैव ताः स्मृताः ।
तन्वः स्वयम्भुवः प्रोक्ताः काले काले भवन्ति याः ।। ५.८६ ।।
एतासामन्तरं वक्तुं नैव शक्यं द्विजोत्तमाः।
गुणवृद्धिनिबन्धत्वाद् द्विधानुग्रहबन्धतः ।। ५.८७ ।।
प्रवृत्तिञ्च निवृत्तिञ्च गुणवृद्धिमिह द्विजाः।
यथाशक्ति प्रवक्ष्यामि तनूनां तन्निबोधत ।। ५.८८ ।।
एका तु कुरुते तासां राजसी सर्वतः प्रजाः।
एका चैवार्णवस्था तु सानुगृह्णाति सात्त्विकी।
एका सा क्षिपते काले तामसी ग्रसते प्रजाः ।। ५.८९ ।।
रजसा तु समुद्रिक्तो ब्रह्मा सम्भवते यदा।
पुरुषाख्या तदा तस्य सात्त्विकी विनिवर्त्तते ।। ५.९० ।।
यदा भवति कालात्मा उद्रेकात्तमसस्तु सः।
ब्रह्माख्या सा तदा त्वस्य राजसी विनिवर्त्तते ।। ५.९१ ।।
सत्त्वोद्रेकात्तु पुरुषो यदा भवति स प्रभुः।
कालाख्या सा तदा तस्य पुनर्नभवतीति वै ।। ५.९२ ।।
Illustrations for the phenomenon of apparent difference:
मणिर्विभजते वर्णान् विचित्रान् स्फटिके यथा।
वैमल्यादाश्रयवशात्तद्वर्णः स्यात्तदञ्जनः ।। ५.९५ ।।
तथा गुणवशात्तस्य स्वयम्भोरनुरञ्जनम्।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ।। ५.९६ ।।
Just as the color of a nearby object appears in a crystal bead, the same
Brahman appears formally differently due to the possession of qualities
(which do not belong to its true nature).
एको भूत्वा यथा मेघः पृथक्त्वेनावतिष्ठते।
रूपतो वर्णतश्चैव तथा गुणवशात्तु सः ।। ५.९७ ।।
भवत्येको द्विधा चैव त्रिधा मूर्तिविनाशनात्।
एको ब्रह्मान्तकृच्चैव पुरुषश्चेति ते त्रयः ।। ५.९८ ।।
Just as the cloud is the same, but appears distributed (spread) with
different forms and colors, the same Brahman appears as two or three as the
Trimurti-s:
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः।
ब्राह्मी च पौरुषी चैव अन्तकारी च ते त्रयः ।। ५.९९ ।।
Discrimination as to who is superior and who is inferior among them is
reprehensible:
एकत्वे च पृथक्त्वे च तासु भिन्नाः प्रजास्त्विह ।
इदं परमिदं नेति ब्रुवतो भिन्नदर्शनाः ।। ५.१०७ ।।
Discriminationists say that one is superior:
ब्रह्माणं कारणं केचित् केचित् प्राहुः प्रजापतिम्।
केचिच्छिवं परत्वेन प्राहुर्विष्णुं तथाऽपरे।
अविज्ञानेन संसक्ताः सक्ता रत्यादिचेतसा ।। ५.१०८ ।।
It is ignorance to perceive difference.
तत्त्वं कालञ्च देशञ्च कार्याण्यावेक्ष्य तत्त्वतः।
कारणञ्च स्मृता ह्येता नानार्थेष्विह देवताः ।। ५.१०९ ।।
एकं निन्दति यस्तेषां सर्वानेव स निन्दति।
एकं प्रशसमानस्तु सर्वानेव प्रशंसति।
To insult one is to insult all. Praise of one is praise of all.
एकं यो वेत्ति पुरुषं तमाहुर्ब्रह्मवादिनम् ।। ५.११० ।।
To know that Brahman is One is the vision of the Vedantins.
अद्वेषस्तु सदा कार्यो देवतासु विजानता।
न शक्यमीश्वरं ज्ञातुमैश्वर्येण व्यवस्थितम् ।। ५.१११ ।।
One should not differentiate between deities.
एकात्मा स त्रिधा भूत्वा संमोहयति यः प्रजाः।
एतेषाञ्च त्रयाणान्तु विचरन्त्यन्तरं जनाः ।। ५.११२ ।।
जिज्ञासन्तः परीक्षन्तः सक्ता रूपाविचेतसः।
इदं परमिदं नेति वदन्ति भिन्नदर्शिनः ।। ५.११३ ।।
यातुधानान् विशन्त्येताः पिशाचांश्चैव तान्नरान् ।
Those who differentiate between the Trimurtis become demons and devils.
एकत्वेन पृथक्त्वेन स्वयम्भूर्व्यवतिष्ठते ।। ५.११४ ।।
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन् प्रजाः।
तेष्वेकं यजते यस्तु स तदा यजते त्रयम् ।। ५.११५ ।।
तस्माद्देवास्त्रयो ह्येते नैरन्तर्ये व्यवस्थिताः।
Worshiping one deity is akin to worshiping the Trimurtis.
तस्मात् पृथक्त्वमेकत्वसङ्ख्या सङ्ख्यागतागतम्।
एकत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ।। ५.११६ ।।
रुद्रं ब्रह्‌माणमिन्द्रञ्च लोकपालान् ऋषीन् दनून्।
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ।। ५.११८ ।।
The same Narayana appears as Rudra, Brahma, Indra, the loka paala-s, Sages
etc. This is the statement in the Rg Veda: R. 1.164.46 एकं सद्विप्रा बहुधा
वदन्ति .
Shankaracharya agrees with this in his commentary:
Brahmasutra Commentary 1.4.22:
स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति
नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न
इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकः — एको ह्ययमात्मा
नाममात्रभेदेन बहुधाभिधीयत इति ।
Brahmasutra Commentary 2.2.42 Pancharatradhikarana:
तत्र यत्तावदुच्यते — योऽसौ नारायणः परोऽव्यक्तात्प्रसिद्धः परमात्मा
सर्वात्मा, स आत्मनात्मानमनेकधा व्यूह्यावस्थित इति — तन्न निराक्रियते, ‘ स
एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः
परमात्मनोऽनेकधाभावस्याधिगतत्वात् ;
This Vedic premise is acceptable only to Advaitins and Vedavyasa.
So in this chapter the Purana strongly condemns the Trimurti discrimination
and the Pantheistic discrimination and praises the the vision of Oneness.

See image here: https://groups.google.com/g/advaitin/c/z0U4QbsFpoY
Om


More information about the Advaita-l mailing list