[Advaita-l] वार्त्तिककारीयजीवलक्षणस्य मूलम् अद्ध्यात्मरामायणम्

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Fri Sep 4 15:00:02 EDT 2020


*श्रीमल्ललितालालितः*www.lalitaalaalitah.com


On Fri, Sep 4, 2020 at 1:09 PM H S Chandramouli via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Pranams.
>
> Adhyatma Ramayana is considered by many to have been the work of Sri
> Ramananda around 15th Century. This would thus place it much later than Sri
> Suresvaracharya. Any clarifications on this time frame?
>

यावदन्येन केनचिदद्वैतिना रचितम् इतिनिश्चयाय प्रमाणं नोपलभ्यते तावत्
वाल्मीकेरेवेयं रचना इतिप्रसिद्ध्या कर्त्तुर्निश्चयोबाधित एव ।
केवलं मतविशेषेणाङ्गीकृता अर्त्था अत्रोपलभ्यन्त इति इदमद्वैतिना
केनचिदनन्तरमेव निर्म्मितम् इति तु न निश्चेतुं शक्यते ; विपरीतमेव स्यात्
इत्यङ्गीकारे तु प्रसिद्धेरविरोधो भवति अद्वैतिनां सम्प्रदायविशेषस्य मूलञ्च
लभ्यते ।
दृष्टविरोधो न कार्य्यः , किञ्च इदं दुष्टमूलकम् इत्युत्प्रेक्षामात्रेण
दूषिततायां तु जगति सर्व्वमेव दूषितं स्यात् ।


More information about the Advaita-l mailing list