[Advaita-l] गुरुपूर्णिमा शुभाशयाः

V Subrahmanian v.subrahmanian at gmail.com
Wed Jul 17 03:39:49 EDT 2019


This part of the Taittiriya Upanishad is significant in that it specifies
'svaadhyaaya and pravachana' for the Grihastha to be meticulously adhered
to in the midst of his household duties:

विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानां
कर्मणामानर्थक्यं प्राप्तमित्येतन्मा प्रापदिति कर्मणां पुरुषार्थं प्रति
साधनत्वप्रदर्शनार्थ इहोपन्यासः -

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्याय
प्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्य
स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्याय
प्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च ।
प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति
सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति
नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥
 भाष्यम्
<https://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=1&id=T_C01_S09_V01&hlBhashya=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%9A%E0%A4%A8%E0%A5%87#bhashya-T_C01_S09_V01>
ऋतमिति व्याख्यातम् । स्वाध्यायः अध्ययनम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा ।
एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेषः । सत्यं सत्यवचनं यथाव्याख्यातार्थं
वा । तपः कृच्छ्रादि । दमः बाह्यकरणोपशमः । शमः अन्तःकरणोपशमः । अग्नयश्च
आधातव्याः । अग्निहोत्रं च होतव्यम् । अतिथयश्च पूज्याः । मानुषमिति लौकिकः
संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजा च उत्पाद्या । प्रजनश्च
प्रजननम् ; ऋतौ भार्यागमनमित्यर्थः । प्रजातिः पौत्रोत्पत्तिः ; पुत्रो
निवेशयितव्य इत्येतत् । सर्वैरेतैः कर्मभिर्युक्तस्यापि स्वाध्यायप्रवचने
यत्नतोऽनुष्ठेये
इत्येवमर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं
ह्यर्थज्ञानम् । अर्थज्ञानाधीनं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थं
धर्मवृद्ध्यर्थं च । ततः स्वाध्यायप्रवचनयोरादरः कार्यः । सत्यमिति
सत्यमेवानुष्ठेयमिति सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचाः, नाम वा तस्य ;
राथीतरः रथीतरसगोत्रः राथीतर आचार्यो मन्यते । तप इति तप एव कर्तव्यमिति
तपोनित्यः तपसि नित्यः तपःपरः, तपोनित्य इति वा नाम ; पौरुशिष्टिः
पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते । स्वाध्यायप्रवचने एव
अनुष्ठेये इति नाको नामतः मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते । तद्धि
तपस्तद्धि तपः । यस्मात्स्वाध्यायप्रवचने एव तपः, तस्मात्ते एवानुष्ठेये इति ।
उक्तानामपि सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम् ॥

That shows that the Guru is to be honored/worshiped by default by the
householder.

warm regards
subbu

On Wed, Jul 17, 2019 at 1:01 PM Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Thank you for that quote from bhaviShyottara purANa to indicate that it's
> important even fir grihasthas.
>
> "मम जन्मदिने सम्यक् पूजनीयः प्रयत्नतः आषाढ शुक्लपक्षे तु पूर्णिमायां गुरौ
> तथा पूजनीयो विशेषेण,
> वस्त्राभरणधेनुभिः दक्षिणाभिः सुपुष्ठाभिः मत्स्वरूपं प्रपूजयेत् । एवं कृतं
> त्वया विप्र मत्स्वरूपस्य दर्शनं  भविष्यति,
> न संदेहो मयैवोक्तं द्विजोत्तम ।'
>
>
> On Wed 17 Jul, 2019, 10:55 AM Venkata sriram P via Advaita-l, <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> >
> > .....
> > vyAsa pourNami is only of little importance for grihasthas
> > .............
> >
> > One's own दीक्षागुरुः should be worshipped on this day. Those who are
> > initiated in shrIvidya, should perform
> > गुरुमण्डलार्चना or else one's own acharya who taught us Veda / Bhagavat
> > Gita / Upanishads etc. should be
> > worshipped.
> >
> > Bhagavan Vyasa Himself says that He gets तृप्ति and says that when one's
> > immediate guru / acharya is
> > worshipped, it reaches Him only.
> >
> > मम जन्मदिने सम्यक् पूजनीयः प्रयत्नतः आषाढ शुक्लपक्षे तु पूर्णिमायां गुरौ
> > तथा पूजनीयो विशेषेण,
> > वस्त्राभरणधेनुभिः दक्षिणाभिः सुपुष्ठाभिः मत्स्वरूपं प्रपूजयेत् । एवं कृतं
> > त्वया विप्र मत्स्वरूपस्य दर्शनं  भविष्यति,
> > न संदेहो मयैवोक्तं द्विजोत्तम ।
> >
> > So, we should worship our own guru by offering him new clothes, dakshina
> > etc.
> >
> > The traditional & orthodox grihasthas also observe चातुर्मास्यव्रतम्
> where
> > some selected food items
> > should be avoided like spinach, curd, milk and certain pulses.
> >
> > Thus, व्यास पूर्णिमा is for all irrespective of one's ashrama-niyamas.
> >
> > rgs,
> > sriram
> >
> > _______________________________________________
> > Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> > http://blog.gmane.org/gmane.culture.religion.advaita
> >
> > To unsubscribe or change your options:
> > https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> >
> > For assistance, contact:
> > listmaster at advaita-vedanta.org
> >
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list