[Advaita-l] 'Shiva Linga pratishThaa' admitted in MBTN by Madhva

V Subrahmanian v.subrahmanian at gmail.com
Fri Dec 27 10:16:51 EST 2019


In Kurmapuranam there is a variety of ways in which one can become free
from 'brahma hatyaa' sin. One of these is: to go Rameshwaram and have the
Darshan of Rudra there.
https://sanskritdocuments.org/.../vyAsagItAkUrmapurANa...
<https://sanskritdocuments.org/doc_giitaa/vyAsagItAkUrmapurANa.html?lang=sa&fbclid=IwAR38E773QelrmeK0PnqsxSnUjQV-OiYWKwqJXuY5KsTfrVDRARSyrOr76u4>


ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ ३०.८॥

संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।
यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ ३०.९॥

याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यः पतत्येव सह भोजनमेव च ॥ ३०.१०॥

अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।
संवत्सरेण पतति सहाध्ययनमेव च ॥ ३०.११॥

ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।
भैक्षमात्मविशुद्ध्यर्थे कृत्वा शवशिरोर्ध्वजम् ॥ ३०.१२॥

ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।
विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ ३०.१३॥

असंकल्पितयोग्यानि सप्तागाराणि संविशेत् ।
विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ ३०.१४॥

एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् ।
वन्यमूलफलैर्वापि वर्त्तयेद् वै समाश्रितः ॥ ३०.१५॥

कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ३०.१६॥

अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।
कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ ३०.१७॥

कुर्यादनशनं वाऽथ भृगोः पतनमेव वा ।
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ ३०.१८॥

ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ ३०.१९॥

दीर्घामयाविनं विप्रं कृत्वानामयमेव वा ।
दत्त्वा चान्नं सुविदुषे ब्रह्महत्यां व्यपोहति ॥ ३०.२०॥

अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ ३०.२१॥

सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।
शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ ३०.२२॥


*गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।ब्रह्मचर्यादिभिर्युक्तो
दृष्ट्वा रुद्रं विमुच्यते ॥ ३०.२३॥*

कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।
स्नात्वाऽभ्यर्च्य पितॄन् देवान् ब्रह्महत्यां व्यपोहति ॥ ३०.२४॥

यत्र देवादिदेवेन भैरवेणामितौजसा ।
कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ ३०.२५॥

समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।
तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ ३०.२६॥

  इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः
॥३०॥

In Parashara Dharma Samhita these two lines:
rāmacandrasamādiṣṭanalasaṃcayasaṃcitam // (70.2) Par.?
setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati / (71.1) Par.? appear to
say: brahmahatyaa dosha will go if one has the darshana of the Setu that
was built by Nala, etc. on the command of Ramachandra. I am not sure of the
exact meaning, but does it suggest a connection between the Linga
pratishtha by Rama and the setu construction?
http://www.sanskrit-linguistics.org/dcs/index.php...
<http://www.sanskrit-linguistics.org/dcs/index.php?contents=texte&PhraseID=437603&fbclid=IwAR1el9gchLGDQ1jPdzu6Wp3FxYzltEWd3DAFW5cB530S5V4swyGvb2WXiS0>


Gokarna Purana Sarah

http://www.sanskrit-linguistics.org/dcs/index.php?contents=texte&PhraseID=431833&fbclid=IwAR0iEbFw8cfk2Us7i2aJsne-ppAvKIaidO2GrjT37Cne0hcKArmTdQ9Sn6s

sūta uvāca / (46.2) Par.?
rāvaṇādīn raṇe hatvā rāmo rākṣasapuṅgavān // (46.3) Par.?
kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata / (47.1) Par.?
tato 'gastyamukhācchrutvā rāvaṇaṃ brahmavaṃśajam // (47.2) Par.?
brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat / (48.1) Par.?
sītālakṣmaṇasaṃyuktas tathā vāyusutena ca // (48.2) Par.?
gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam / (49.1) Par.?
pratyakṣīkṛtya giriśaṃ hatyāpāpād vimuktavān // (49.2) Par.?
kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam / (50.1) Par.?
ayodhyāṃ svāṃ purīṃ gatvā yathāpūrvam atiṣṭhata // (50.2) Par.?
rāmatīrthe snānamātrād brahmahatyā vinaśyati / (51.1) Par.?

Om Tat Sat

On Wed, Dec 25, 2019 at 4:31 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> In his Mahabharata Tatparya Nirnaya  alludes to certain events reported in
> the Puranic/Epic literature and gives his own view on what they really
> mean.  The episode of Rama installing the Shiva Linga is one such that
> Madhva alludes to:
>
> https://www.sanskritworld.in/.../book/book_50e11cb89ce76.txt
> <https://www.sanskritworld.in/public/assets/book/book_50e11cb89ce76.txt?fbclid=IwAR3A3smlePvyuViIgV6CeX5treFVw6WL0qKG7ldKzD9_WXldhwbHiZMPUCg>
>
> "क्वचिच्छिवं क्वचिदृषीन् क्वचिद्देवान् क्वचिन्नरान् ।
> नमत्यर्चयति स्तौति वरानर्थयतेऽपि च । २.१२७ ।
> *लिङ्गं प्रतिष्ठापयति *वृणोत्यसुरतो वरान् ।
> सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा ।
> सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः " । २.१२८ ।
>
> regards
> subbu
>
>
>
>
>


More information about the Advaita-l mailing list