[Advaita-l] A sample of Shankara's statements on 'jagan mithyā'

V Subrahmanian v.subrahmanian at gmail.com
Tue Mar 15 04:15:55 CDT 2016


I had occasion to scan the Advaitasharada resource by giving the search
word 'mithyā' to locate sentences where  Shankara has unambiguously stated
that the world is mithya. The compound word 'jagan-mithya' is not to be
found in these references, but that is what he means is very clear.  One
can take up a good translation to get the meanings of these sentences.
These are not the only such references for one can get results by giving
other search words like 'anṛtam' and 'asat'.

BSB 1.4.19:
‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’ इत्यादिना ; यो हि
ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति,
*तं**मिथ्यादर्शिनं तदेव मिथ्या**दृष्टं ब्रह्मक्षत्रादिकं जगत्प*राकरोतीति
भेददृष्टिमपोद्य, ‘इदꣳ सर्वं यदयमात्मा’ इति सर्वस्य
वस्तुजातस्यात्माव्यतिरेकमवतारयति ;

BSB 2.1.14:
मिथ्याज्ञानविजृम्भितं च नानात्वम् ।

Tai.up. bhashya 2.11.4
 अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य *द्वैतस्य *
*मिथ्या**त्वम् *; ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २-४-१४) ‘मृत्योः स
मृत्युमाप्नोति’ (क. उ. २-१-१०)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=02&hval=%E2%80%98%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%B0%20%E0%A4%B9%E0%A4%BF%20%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%AE%E0%A4%BF%E0%A4%B5%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF%E2%80%99%20(%E0%A4%AC%E0%A5%83.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%AA-%E0%A5%A7%E0%A5%AA)%20%E2%80%98%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%83%20%E0%A4%B8%20%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%A8%E0%A5%8B%E0%A4%A4%E0%A4%BF%E2%80%99%20(%E0%A4%95.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%A7-%E0%A5%A7%E0%A5%A6)#BR_C02_S04_V14>

Mandukya mantra 7:

शून्यमेव तर्हि ; तन्न, मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेः ; न हि
रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूषरादिव्यतिरेकेण
अवस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि
प्राणादिसर्वविकल्पास्पदत्वात्तुरीयस्य शब्दवाच्यत्वमिति न प्रतिषेधैः
प्रत्याय्यत्वमुदकाधारादेरिव घटादेः ; न,
प्राणादिविकल्पस्यावस्तुत्वाच्छुक्तिकादिष्विव रजतादेः

Mandukya 4.9 karika bhashya:

*मिथ्या**कल्पितेषु लौकिकेष्वपि वस्तुषु* प्रकृतिर्नान्यथा भवति ; किमुत
अजस्वभावेषु परमार्थवस्तुषु ?

माण्डूक्योपनिषद्भाष्यम् । अलातशान्तिप्रकरणम् । कारिका ७५ - भाष्यम्
यस्मादसद्विषयः, तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम् । अभिनिवेशः
आग्रहमात्रम् । द्वयं तत्र न विद्यते मिथ्याभिनिवेशमात्रं च जन्मनः कारणं
यस्मात्, तस्मात् द्वयाभावं बुद्ध्वा निर्निमित्तः निवृत्तमिथ्याद्वयाभिनिवेशः
यः, सः न जायते ॥


More information about the Advaita-l mailing list