[Advaita-l] अनिर्वचनीयम्

Raja Krishnamurti rajakrishnamurti at yahoo.com
Thu Jul 2 10:36:45 EDT 2026


Sri Venkatesh,Appreciate it if you can provide translation, commentary in English.Regards,Raja


Sent from Yahoo Mail for iPhone


On Thursday, July 2, 2026, 7:32 AM, Venkatesh Murthy via Advaita-l <advaita-l at lists.advaita-vedanta.org> wrote:

*धर्मराजाध्वरिणा विरचितायां वेदान्तपरिभाषायां वस्तुनः त्रिविधा सत्ता
निरूप्यते—*

*यद्वा त्रिविधं सत्त्वम्—पारमार्थिकसत्त्वं ब्रह्मणः, व्यावहारिकं
सत्त्वमाकाशादेः, प्रातिभासिकं सत्त्वं शुक्तिरजतादेः।*

अस्यार्थः—ब्रह्मणः सत्ता पारमार्थिकी; आकाशादिसहितस्य समस्तस्य वस्तुजालस्य
सत्ता व्यावहारिकी; शुक्तौ रजतस्य यः प्रतिभासः, तस्य सत्ता प्रातिभासिकी इति।

अद्वैतवेदान्तानुसारं शुक्तौ इदानीं प्रत्ययमानं रजतं शुक्त्यधिष्ठानसम्बद्धया
अज्ञानशक्त्या जन्यते। तत् अज्ञानं शुक्तेः यथार्थस्वरूपमावरणेन तिरस्करोति,
रजताकारं च प्रतिभासं विक्षिपति। यदा तु शुक्तिः शुक्तिरिति सम्यगवगम्यते, तदा
रजतभ्रान्तिः स्वयमेव निवर्तते।

भ्रान्तौ यत् रजतं प्रतीयते, तत् न सत्; शुक्तिज्ञानेन तस्य बाधितत्वात्। न च
तत् असत्; भ्रान्त्यवस्थायां तस्य प्रत्यक्षानुभवविषयत्वात्। असत् हि
शशविषाणादिवत् सर्वथैव कल्पितं कदाप्यप्रतीयमानं वस्तु उच्यते। अतः शुक्तिरजतं
न सत्, नाप्यसत्। न च तत् सदसदुभयात्मकम्; तस्य विरोधात् (यत्तु
व्याघातदोषयुक्तं भवति) । तस्मात् तद् रजतम् *अनिर्वचनीयम्* इत्युच्यते—यत् न
सत्त्वेन निर्णेतुं शक्यते, नासत्त्वेन, न च  सदसदुभयात्मकत्वेन।

-- 
Regards

-Venkatesh
_______________________________________________
Archives: https://lists.advaita-vedanta.org/archives/advaita-l/

To unsubscribe or change your options:
https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l

For assistance, contact:
listmaster at advaita-vedanta.org





More information about the Advaita-l mailing list