[Advaita-l] Srimad Bhagavatam says that the world is a mirage

V Subrahmanian v.subrahmanian at gmail.com
Fri May 26 07:04:11 EDT 2023


श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७३
https://sa.wikisource.org/s/v45
<https://sa.wikisource.org/s/v45?fbclid=IwAR2y5vrvovYzD9WILlEN1UMK2YK85THiRDp3P8HkWH-loQyCXTd3Klzkkyk>
मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।
एवं वैकारिकीं मायां अयुक्ता वस्तु चक्षते ॥ ११ ॥
Just as a mirage is thought by the unwise to be a reservoir, this world of
illusion is perceived by the uninformed as real.
Sridhara Swami's commentary of the above verse is given below as an image.
Some examples of this theme in the Advaita Bhasya:
श्रीमद्भगवद्गीताभाष्यम्द्वितीयोऽध्यायःश्लोक १८ - भाष्यम्
………अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः
अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते,

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक १८ - भाष्यम्
………अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादकर्मणः । अतः विपरीतगृहीते एव
कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम् ।
न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उदकाभावज्ञानेऽपि तत्रैव
पानप्रयोजनाय प्रवर्तते ॥ ९

तैत्तिरीयोपनिषद्भाष्यम्षष्ठोऽनुवाकःमन्त्र १ - भाष्यम्

………एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यवहारविषयमापेक्षिकं सत्यम् ,
मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते ।

बृहदारण्यकोपनिषद्भाष्यम्चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र २२ - भाष्यम्

………; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि
मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं
पश्यतोऽपि प्रवृत्तिर्युक्ता ; एवम् अस्माकमपि परमार्थात्मलोकदर्शिनां
प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न
प्रवृत्तिर्युक्तेत्यभिप्रायः

Moreover, the same thing is also conveyed in the Bhashya by the word
marichyudaka, another name for a mirage:

श्रीमद्भगवद्गीताभाष्यम्द्वितीयोऽध्यायःश्लोक १६ - भाष्यम्

………तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि
नियतानियतरूपाणि द्वन्द्वानि ‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते’ इति
मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः ॥ १६ ॥

कठोपनिषद्भाष्यम्प्रथमोऽध्यायःतृतीया वल्लीमन्त्र १४ - भाष्यम्

………एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं
यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन
मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः
कृतकृत्यो भवति यतः, अतस्तद्दर्शनार्थमनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे
जन्तवः,………

Only in Advaita is this example accepted without any change. It will be
difficult for others to account for this analogy since it is detrimental to
their doctrine.

Om


More information about the Advaita-l mailing list