[Advaita-l] Fwd: ​Quantum mechanics => world is mithyA?

V Subrahmanian v.subrahmanian at gmail.com
Sat Mar 25 13:20:49 EDT 2023


The article that apparently appeared in a Sanskrit journal.  This is on the
much debated Nobel 2022 Physics prize:  Whether the findings support the
Advaitic view of unreality of the world.

---------- Forwarded message ---------
From: विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas.vasuki at gmail.com>
Date: Fri, Mar 24, 2023 at 8:01 PM
Subject: Re: Quantum mechanics => world is mithyA?
To:
Cc: <cheto-deva-jivadi at googlegroups.com>


अस्याश् चर्चाया मूले भ्रमास्पदम् इदम् प्रकाशितं सम्भाषणसन्देश इति भाति (dec
2022) -

*जगतः मिथ्यात्वं विज्ञानसिद्धम्*

* जगदीशः

          आधुनिकेन विज्ञानेन यत् उच्यते तत् अन्तिमसत्यम् इति भावयन्ति जनाः
। किन्तु अत्र वास्तविकता कियता प्रमाणेन अस्ति इति तु विचारणीयम् ।

वैद्यविज्ञानम् एव पश्यत । रोगाभिज्ञानाय विविधानि परीक्षणानि क्रियन्ते ।
किन्तु प्रयोगालयद्वयस्य वृत्तं किं समानम् एव भवितुम् अर्हेत् ? प्रायः
‘न’ इत्येव
उत्तरम् । यन्त्राणि आधुनिकानि । (एकेन एव निर्माणगारेण निर्मितानि अपि
भवितुम् अर्हन्ति तानि ।) परीक्षणविधिः अपि समानः । परीक्षकाः अपि
प्राप्तशिक्षणाः । तैः प्राप्तं शिक्षणम् अपि समानम् । तथापि वृत्ते (Report)
तु न एकरूपता । आस्तां तावात् वृत्तस्य कथा । यत् वृत्तं प्राप्येत तत्
अवलम्ब्य सर्वे वैद्याः (आधुनिकाः) समानानि एव औषधानि यच्छन्ति किम् ?
औषधसेवनक्रमविधौ
समानता भवति किम् ?

अत्र सर्वत्र अपि आधुनिकं विज्ञानम् एव अवलम्ब्यते । तथापि परिणामभेदः तु
महान् । एवं तर्हि विज्ञानं प्रयोगसिद्धम् अन्तिमसत्यम् एव वदति इत्येतत् किं
वस्तुस्थितिद्योतकम् ? अलं तावत् वैद्यकीयक्षेत्रचर्चया । प्रकृतम् अनुसराम
तावत् ।

विज्ञानेन पूर्वं यत् प्रतिपाद्यते स्म तदेव अद्यापि प्रतिपाद्यते इति तु
बहुत्र न । ‘प्रकाशः सरलरेखया चलति’ इति अवदत् न्यूटनः । किन्तु अनन्तरकाले
ज्ञातः अंशः - ‘सः तरङ्गरूपेण प्रसरति, न तु सरलरेखया’ इति । अद्यत्वे तु
तत्रापि विमतिः दर्श्यते बहुभिः वैज्ञानिकैः ।

‘अणुः अविभाज्यः’ इति आसीत् विश्वासः एकस्मिन् कालखण्डे । अग्रे ज्ञातम् - अणौ
अपि भागाः सन्ति इति । ‘इलेक्ट्रान्, प्रोटान्, न्यूट्रान् इत्येते त्रयः भागाः’
इति अनन्तरकाले सिद्धम् । ततोऽग्रे निर्णीतम् - ‘इलेक्ट्रान्प्रभृतयः अपि
तरङ्गरूपाः, तरङ्गपरिणामतः अणुः दृष्टिगोचरतां याति’ इति । अद्यत्वे
विज्ञानिनः वदन्ति - वस्तुनि विद्यमाना रिक्तता एव अन्तिमं रूपम् इति ।

इण्डियानाविश्वविद्यालयीयः विज्ञानप्राध्यापकः प्रा.कश्यपवसवादः वदति - Scientists
realised that the world is not made out of rigid firm objects like billiard
balls and bricks. At the atomic and sub-atomic level, it consists of empty
space. So the solid nature of objects we see around is only apparent. As
one goes deeper and deeper, one keeps on finding vacuum all the way

Brhman is the only truth; the world is a false illusion. I believe he
realized that all of this disintegrates and thus cannot be a fundamental
reality. Similarly in Physics one sees only the material objects and does
not see the strange quantum fuzzy world underlying all the matter.

तदीयस्य कथनस्य सारः तु - एतत् विश्वं घनरूपैः वस्तुभिः निर्मितं न ।
अणुपरमाणुस्तरः यदि विविच्येत तर्हि अवगम्यते यत् अनेकैः तरङ्गैः उपेताः ते
परमाण्वादयः अन्तस्सारहीनाः इति । घनरूपेण प्रतिभासमानाः अपि ते शून्यरूपाः एव
इति तु अन्तिमस्तरीयः निर्णयः ।

‘जगन्मिथ्या’ इति तु अस्मदीयानां शास्त्राणां प्रमुखं तत्त्वम् । जगतः
मिथ्यात्वं तु सर्वाणि अपि दर्शनानि अङ्गीकुर्वन्ति । आत्यन्तिकं सत्यं तु
शून्यरूपम् इति अद्वैतसिद्धान्तः कथयति । अतः एव आत्यन्तिकसत्यस्य
अनिर्वचनीयत्वम् अपि उच्यते ।

घट्टकुटीप्रभातन्यायः इति कश्चन लौकिक-न्यायः । घट्टकुटी नाम नगरप्रवेशस्थले
करसङ्ग्रहाय परिकल्पितं स्थानम् । कश्चन वस्तुस्वामी घट्टकुट्यां करं दातुम्
अनिच्छन् मार्गान्तरम् आश्रित्य समग्रायां रात्रौ बहुधा अटित्वा प्रभाते तु
उपस्थितः आसीत् घट्टकुट्याः पुरतः एव इति काचित् कथा श्रूयते । अतः एव
घट्टकुटीप्रभातन्यायनामकः लौकिक-न्यायः एव प्राचीनैः परिकल्पितः ।
आधुनिक-विज्ञानेन अपि एवमेव क्रियमाणः अस्ति इति वक्तुं शक्यम् ।
प्राचीनसिद्धान्तम् अनभ्युपगच्छद्भिः विज्ञानिभिः अनेकविधानि संशोधनानि कृतानि
। किन्तु अन्ते तैः अपि जगतः मिथ्यात्वम् एव अङ्गीक्रियमाणम् अस्ति, यच्च आ
बहोः कालात् पूर्वम् एव भारतीयैः दर्शनैः प्रतिपादितम् ।




-- 
You received this message because you are subscribed to the Google Groups
"चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to cheto-deva-jivadi+unsubscribe at googlegroups.com.
To view this discussion on the web visit
https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgG2DFU8qc-dd%3DViHS0Q_SVJb%2BcyKuWGVpbRqSJDSADeng%40mail.gmail.com
<https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgG2DFU8qc-dd%3DViHS0Q_SVJb%2BcyKuWGVpbRqSJDSADeng%40mail.gmail.com?utm_medium=email&utm_source=footer>
.


More information about the Advaita-l mailing list