[Advaita-l] The Jiva alone creates the dream - Srimad Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Thu Mar 23 03:02:06 EDT 2023


In this chapter of the Bhagavata, as an example to the Supreme Lord
creating the world and entering into it, the creation of the dream by the
jiva by the mind by his Avidya sakti is stated:
श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८६
https://sa.wikisource.org/s/v4e
<https://sa.wikisource.org/s/v4e?fbclid=IwAR3x0VvRURauRR6NGY6uaPjhYHGCgNtFS3nfMjrsHcQkwaqaBY0w7iIz9qc>

श्रुतदेव उवाच -
नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः ।
यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥ ४४ ॥
यथा शयानः पुरुषो मनसैवात्ममायया ।
सृष्ट्वा लोकं परं स्वाप्नं अनुविश्यावभासते ॥ ४५ ॥
Just as a sleeping man appears to have created the world with his own
illusion (ignorance) and entered it, so the Supreme Lord appears as if he
has created this world with his Maya power and entered it. From this
illustration, the Srimad Bhagavatam reveals that the creation of the world
and the entry of the Supreme Being into it is also illusory and not real.
This premise is accepted only in Advaita.
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ Brahma sutra: 3.2.3
Shankara's commentary: on the fact that the creation of a dream is
illusory, not real:
तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — यदुक्तम् , सन्ध्ये सृष्टिः
पारमार्थिकीति ; मायैव सन्ध्ये सृष्टिः, न परमार्थगन्धोऽप्यस्ति ।
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥ Brahma sutra 3.2.4
Commentary on the creation of a dream by the jiva himself:
श्रुत्यन्तरे ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा
प्रस्वपिति’ (बृ. उ. ४ । ३ । ९) इति जीवव्यापारश्रवणात् ; इहापि ‘य एष
सुप्तेषु जागर्ति’ (क. उ. २ । २ । ८) इति प्रसिद्धानुवादाज्जीव एवायं कामानां
निर्माता सङ्कीर्त्यते ; तस्य तु वाक्यशेषेण ‘तदेव शुक्रं तद्ब्रह्म’ इति
जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते — ‘तत्त्वमसि’ (छा. उ. ६ । ९ । ४)
इत्यादिवत् — इति न ब्रह्मप्रकरणं विरुध्यते ।
Commentary on the fact that the creation of dream and the creation of
waking life are also non-transcendental:
पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् —
इत्येतावत्प्रतिपाद्यते ; न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ;
प्रतिपादितं हि ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्र
समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात्
वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ; सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं
बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥ ४ ॥
Thus the creation of the dream is illusory and the creation of the waking
world is also not absolutely real as it is stated in the Advaita Bhashya as
well as in the Bhagavata.
Om


More information about the Advaita-l mailing list