[Advaita-l] Gaudapada and Shankara say: the world is imagined by the jiva through avidya

V Subrahmanian v.subrahmanian at gmail.com
Thu Jul 27 09:19:00 EDT 2023


In the 2nd chapter of the Mandukya karika, in the following verses,
Gaudapada and Shankara say that the world, both inner and outer, are
imaginations of the jiva.  Shankara is refuting the objection that it
amounts to vijnanavada (Buddhism) by giving the reason: in Vedanta the
imagination is on the adhishthana of the Atman whereas in vijnanavada it is
not on the basis of the eternal atman.

A couple of years ago, there was a seminar on Buddhism, organised jointly
by the Maha Bodhi Society and the Karnataka Sanskrit University, at the
Institute of World Culture, B.P. Wadia Road, Basavanagudi, Bangalore.
Speaking at the seminar, senior Madhva scholar  Dr. D. Prahladachar (who is
now the head of the Vyasraja Matha) observed: "Both Buddhists and Advaitins
admit the mithyatva of the world. The Advaitins say the substraturm of the
world, which is but a superimposition, is Brahman as propounded by Vedanta.
Buddhists do not admit any eternal substratum."

Here is a file containing an essay by Sri SSS on the comparative study of
Advaita and Buddhism.  Gaudapadacharya's Karika and Nagarjuna's work are
the texts.  This is in English:

https://adbhutam.files.wordpress.com/2021/01/advaita-and-buddhism-sss.pdf

Here are the Karika and Bhashya on the topic of 'Jiva imagining the world':

उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥

चोदक आह — स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यम् , क
एतानन्तर्बहिश्चेतःकल्पितान्बुध्यते । को वै तेषां विकल्पकः ; स्मृतिज्ञानयोः
क आलम्बनमित्यभिप्रायः ; न चेन्निरात्मवाद इष्टः ॥

कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥

स्वयं स्वमायया स्वमात्मानमात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति
रज्ज्वादाविव सर्पादीन् , स्वयमेव च तान्बुध्यते भेदान् , तद्वदेवेत्येवं
वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । *न च निरास्पदे एव
ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः ॥ *

(Here is where Shankara is refuting the objection that Vedanta is Buddhism)


विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥


सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते — विकरोति नाना करोति अपरान्
लौकिकान् भावान् पदार्थाञ्शब्दादीनन्यांश्च अन्तश्चित्ते वासनारूपेण
व्यवस्थितानव्याकृतान् नियतांश्च पृथिव्यादीननियतांश्च कल्पनाकालान्
बहिश्चित्तः सन् , तथा अन्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति, *प्रभुः
ईश्वरः, आत्मेत्यर्थः* ॥

Who imagines the world? Shankara answers: It is the Atma. As to how does he
do this? The answer is: svamaayayaa.

That even here, maya is the one that does this is confirmed in the Gita
bhashya by Shankara:  5.14:

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

न कर्तृत्वं स्वतः कुरु इति नापि कर्माणि रथघटप्रासादादीनि ईप्सिततमानि लोकस्य
सृजति उत्पादयति प्रभुः आत्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न
कर्मफलसंयोगम् । यदि किञ्चिदपि स्वतः न करोति न कारयति च देही, कः तर्हि
कुर्वन् कारयंश्च प्रवर्तते इति, उच्यते — स्वभावस्तु स्वो भावः स्वभावः
अविद्यालक्षणा प्रकृतिः माया प्रवर्तते ‘दैवी हि’ (भ. गी. ७ । १४)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V14&hl=%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A5%80%20%E0%A4%B9%E0%A4%BF>
इत्यादिना
वक्ष्यमाणा ॥ १४ ॥

Om tat sat


More information about the Advaita-l mailing list