[Advaita-l] The Bhagavatam correspondence with Shankara's declaration

V Subrahmanian v.subrahmanian at gmail.com
Fri Jun 11 04:34:06 EDT 2021


In the Brahmasutra Bhashya, soon after the SamanvayadhikaraNa bhashyam,
Shankara summarizes the purport of that adhikaranam thus (in the
introduction to the very next adhikaraNam):

एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण
समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् ।

The Upanishadic passages have the purpose of securing us the knowledge of
Brahman, thereby the identity/non-difference of the Atman and Brahman...

We find this very idea emphatically declared by the Srimadbhagavatam, as
the very purport of 'all the Upanishads as that of the nature of the
identity of the Atman with Brahman'   at the end of the entire text:

https://sa.wikisource.org/s/ttx

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।
 वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥

The 12th Canto, 13th chapter has this statement.

This shows that the Advaita Bhashya alone is in complete accordance with
the purport of the Vedantas, the Upanishads, as certified by Veda Vyasa in
the Bhagavatam.

In the entire range of the Prasthana Traya Bhashya we see this central
theme of the Upanishads, seconded by the Smriti by Veda Vyasa, strewn
everywhere, a sample of which is:

(Since the references are given, those requiring translation could please
look up the respective editions)

 ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो
ब्रह्मजिज्ञासा’ इति ।   BSB 1.1.4

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायःप्रथमः पादः सूत्रम् ४ - भाष्यम्
………(न्या. सू. १ । १ । २) इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति
। न चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम् — यथा ‘अनन्तं वै मनोऽनन्ता
विश्वेदेवा अनन्तमेव स तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति । न
चाध्यासरूपम् — यथा ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) ‘आदित्यो
ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति च मनआदित्यादिषु
ब्रह्मदृष्ट्यध्यासः । नापि विशिष्टक्रियायोगनिमित्तम् ‘वायुर्वाव संवर्गः’
(छा. उ. ४ । ३ । १) ‘प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत् ।
 नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् । सम्पदादिरूपे हि
ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं
ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९)
इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत
। ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति
चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् । ‘ब्रह्म वेद ब्रह्मैव भवति’
(मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे न
सामञ्जस्येनोपपद्येरन् । तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् ।
अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि ?………


ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायःप्रथमः पादः सूत्रम् १४ - भाष्यम् BSB 2.1.14

………ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जगदाकारपरिणामित्वदर्शनमपि
स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात् ;
कूटस्थब्रह्मात्मैकत्वविज्ञानादेव
हि फलं दर्शयति शास्त्रम् — ‘ स एष नेति……
श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक २५ - भाष्यम्  Bh.Gita Bhashya
4.25.

………सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन्
होमः तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥ २५ ॥ ………


श्रीमद्भगवद्गीताभाष्यम्षष्ठोऽध्यायःश्लोक २९ - भाष्यम्  BGB 6.29

………योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु
ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं
दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः ॥ २९ ॥………


बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःप्रथमं ब्राह्मणम् Brihadaranyaka Bh.

………। १) इत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्था वृत्तिः
आरभ्यते, संसारव्याविवृत्सुभ्यः
संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये
। सेयं ब्रह्मविद्या उपनिषच्छब्दवाच्या, तत्पराणां सहेतोः
संसारस्यात्यन्तावसादनात् ; उपनिपूर्वस्य………


मुण्डकोपनिषद्भाष्यम्प्रथमं मुण्डकम्प्रथमः खण्डः  Mundaka Bhashya 1.

………। ६) इति च ब्रुवन्दर्शयति । विद्याकर्मविरोधाच्च । न हि
ब्रह्मात्मैकत्वदर्शनेन
सह कर्म स्वप्नेऽपि सम्पादयितुं शक्यम् ; विद्यायाः
कालविशेषाभावादनियतनिमित्तत्वाच्च कालसङ्कोचानुपपत्तेः………


ऐतरेयोपनिषद्भाष्यम्प्रथमः अध्यायःप्रथमः खण्डः  Aitareya Bh.1.1.

………अविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मविषयतया प्रत्युक्तम् ;
उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः
केवलनिष्क्रियब्रह्मात्मैकत्वविद्याप्रदर्शनार्थमुत्तरो
ग्रन्थ आरभ्यते ॥ ………


कठोपनिषद्भाष्यम्प्रथमोऽध्यायःप्रथमा वल्लीमन्त्र २० - भाष्यम्  Kathopanishad
1.1.20

………वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्य
आत्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य
निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं
क्रियाकारकफलाध्यारोपणशून्यमात्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमित्युत्तरो
ग्रन्थ आरभ्यते । तमेतमर्थं द्वितीयवरप्राप्त्याप्यकृतार्थत्वं
तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपञ्जयति………


This is just a sample of the occurrences of the term
'brahmatmaikatva/brahmatmaikya'. There are many other occurrences of
similar terms across the Bhashya corpus.


ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायःतृतीयः पादः सूत्रम् १७ - भाष्यम्  BSB
2.3.17

………— नित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम्
अविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति ; न
चैवंरूपस्योत्पत्तिरुपपद्यते । ताः काः श्रुतयः ?………


ब्रह्मसूत्रभाष्यम्चतुर्थोऽध्यायःप्रथमः पादःसूत्रम् ४ - भाष्यम् BSB 4.1.4

………आत्मग्रहो नोपपद्यते ; न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति ;
सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न
प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ४………


अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति


Many combinations of the terms Brahman and Atman to bring out the identity
as the purport of the Upanishads can be seen in the Bhashyas.


Om Tat Sat


More information about the Advaita-l mailing list