[Advaita-l] Vivekachudamani

Venkatraghavan S agnimile at gmail.com
Mon Jun 1 11:12:37 EDT 2020


Namaste,

#Vivekachudamani Part 11

The eleventh talk, covers verses 3 - 8 of the vivekachUDAmaNi and their
commentary by Jagadguru Srimad Chandrashekhara Bharati Mahaswamigal.

https://youtu.be/zluiJQX6Ajs

The text in Sanskrit is available here:
https://archive.org/download/VivekChudamaniBhashyaChandrasekharaBharati/Vivek%20chudamani_bhashya_chandrasekhara_bharati.pdf

दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ ३ ॥

लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यः स्वात्ममुक्त्यै न यतेत मूढधीः
स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ ४ ॥

इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ ५ ॥

पठन्तु शास्त्राणि यजन्तु देवा -
न्कुर्वन्तु कर्माणि भजन्तु देवताः ।
आत्मैक्यबोधेन विना विमुक्ति -
र्न सिध्यति ब्रह्मशतान्तरेऽपि ॥ ६ ॥

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥

अतो विमुक्त्यै प्रयतेत विद्वा -
न्संन्यस्तबाह्यार्थसुखस्पृहः सन् ।
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा ॥ ८ ॥

Regards
Venkatraghavan

>


More information about the Advaita-l mailing list