[Advaita-l] Padmapadacharya gives a long list of synonyms for Ignorance

V Subrahmanian v.subrahmanian at gmail.com
Wed Sep 4 07:16:48 EDT 2019


Padmapadacharya gives a long list of synonyms for Ignorance

In this passage of the Panchapadika, Padmapadacharya lists the various
synonyms that give the meaning of avidya/shakti... Here, Padmapadacharya
says the one cause for the jiva's samsara is spoken of in various terms in
the shruti, smriti, itihasa and puranas: naamarupam, avyakrutam, avidya,
maayaa, prakruti, agrahanam, avyaktam, tamas, kaaraNam, laya, shakti,
mahaasupti, nidraa, akSharam, aakaasham...which makes the self-effulgent
Atman as though devoid of that inherent nature (aavarana shakti) and makes
one think one is a jivatman (vikshepa shakti):

तदुच्यते — येयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या,
माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः,
निद्रा, अक्षरम् , आकाशम् इति च तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत
एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका
अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते
प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः
परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः
कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः
स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश
आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः ...

This reminds us of the Bhagavadpada's bhashya expression: in BSB 1.4.3:

In this passage of Shankara we see several names matching with the above
list of names indicating ignorance:

अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी
महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः ।
तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश
ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S08_V11&hl=%E0%A4%8F%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%81%20%E0%A4%96%E0%A4%B2%E0%A5%8D%E0%A4%B5%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%B0%E0%A5%87%20%E0%A4%97%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%BE%E0%A4%B6%20%E0%A4%93%E0%A4%A4%E0%A4%B6%E0%A5%8D%E0%A4%9A%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%A4%E0%A4%B6%E0%A5%8D%E0%A4%9A>
इति
श्रुतेः ; क्वचिदक्षरशब्दोदितम् — ‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २)
<https://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=2&id=MD_C02_S01_V02&hl=%E0%A4%85%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A4%A4%E0%A4%83%20%E0%A4%AA%E0%A4%B0%E0%A4%83>
इति
श्रुतेः ; क्वचिन्मायेति सूचितम् — ‘मायां तु प्रकृतिं विद्यान्मायिनं तु
महेश्वरम्’ (श्वे. उ. ४ । १०)
<https://advaitasharada.sringeri.net/display/bhashya/svt?page=4&id=SV_C04_V10&hl=%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%A8%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%AE%E0%A5%8D>
इति
मन्त्रवर्णात् ; अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् ।
तदिदं ‘महतः परमव्यक्तम्’ इत्युक्तम् — अव्यक्तप्रभवत्वान्महतः, यदा
हैरण्यगर्भी बुद्धिर्महान् । यदा तु जीवो महान्
तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम् । अविद्या
ह्यव्यक्तम् ; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्तते ।
तच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते ;

Om Tat Sat


More information about the Advaita-l mailing list