[Advaita-l] Paraashakti's supremacy

V Subrahmanian v.subrahmanian at gmail.com
Sat Oct 26 22:29:41 EDT 2019


 In the Devi Bhagavatam https://sa.wikisource.org/s/ie7 // is a dialogue
where the superseding power of Parashakti is stated.  She is the power
behind the trimurti-s:

शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् ।
इच्छया संहरत्येषा जगदेतच्चराचरम् ॥ ३७ ॥
न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः ।
न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन ॥ ३८ ॥
तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः ।
सैव कारणकार्येषु प्रत्यक्षेणावगम्यते ॥ ३९ ॥
सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः ।
सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः ॥ ४० ॥
धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला ।
ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम् ॥ ४१ ॥
न जानन्ति जना मूढास्तां सदा माययावृताः ।
जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि ॥ ४२ ॥
पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् ।
प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः ॥ ४३ ॥
कलावस्मिन्महाभागा नानाभेदसमुत्थिताः ।
नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन ॥ ४४ ॥
विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः ।
ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम् ॥ ४५ ॥
कामयानाः सदा कामं ते त्रयः सर्वदैव हि ।
यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः ॥ ४६ ॥
ते वै शक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् ।
ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम् ॥ ४७ ॥
तस्माच्छक्तिः सदा सेव्या विद्वद्‌भिः कृतनिश्चयैः ।

In similar vein, at the beginning of the Prapancha saara  Shankara states,
through the words of Vishnu that this Paraashakti is even above himself.

Om Tat Sat


More information about the Advaita-l mailing list