[Advaita-l] Rudra-Rama identity Padmapurana

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 22 05:59:31 EDT 2019


Here are the verses in the original:

महादेवउवाच
जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम्
कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम् १
यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे
स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम् २
रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः
तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम् ३
जितं वै रामचंद्रेण रावणो निहतो रणे
लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे ४
स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि
तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम् ५
जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते
यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम्
भवबंधविमोक्षो हि दृश्यते स चराचरे ६

**अहं रामस्तु विज्ञेयो रामो वै रुद्र एव चएवं ज्ञात्वा तु ते देवि न भेदो
वर्तते क्वचित् ७**
रामरामेति रामेति मनसा ये जपंति च
तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे ८
अहं हि सर्वदा देवि श्रीरामस्मरणं चरे
यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित् ९
काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम्
स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् १०
जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम्
जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ११
तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम्
शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश १२
अत्र हि स्नानमात्रेण यथा जांबवतो बलम्
तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः १३
अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै
फलं सहस्रगुणितं जांबवंतेश दर्शनात् १४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमामहेश्वरसंवादे जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः १५०

On Tue, Oct 22, 2019 at 8:40 AM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
> In the Padmapurana, Uttara Khanda, Chapter 150, there is a dialogue
> between Shiva and Parvati where the glory of Jambutirtha is expounded. In
> the dialogue Shiva reveals the Rudra-Rama Aikya, abheda, identity.  The
> image of the dialogue in English can be seen here:
>
>
> https://drive.google.com/file/d/15l8eSnPd90UiKSKfWEbz4HB8BBrS65q-/view?usp=sharing
>
> This chapter is not from the Shiva Gita.
>
> Concept courtesy: A Tamil post in FB by Sri Gowtham Kalidas:
>
>
> https://www.facebook.com/photo.php?fbid=479335252663444&set=a.113321375931502&type=3&theater
>
> regards
> subbu
>


More information about the Advaita-l mailing list