[Advaita-l] कर्मजाड्यं - a satirical example

Venkata sriram P venkatasriramp at yahoo.in
Mon Jul 30 07:40:12 EDT 2018


नमांसि भूयांसि,

मम आचार्य एकदा विनोदार्थं एका कथा अप्पय दीक्षीत विषये अवोचत् । एषा कथा विनोदार्थमेव ! 

कर्मठा: कियान् जाढ़्या: एवं मेकवृन्दवत् वर्तन्ते इति सूचनार्थमेव । अप्पय दीक्षित: नित्यं संध्या करणे कावेरी नद्यां गच्छति स्म । 
तस्य बहव: शिष्या: एवं अनुयायिन: सन्ति । केचन मन्दबुद्धय: अपि सन्ति । ते नित्यं दीक्षितान् सन्ध्यावन्दनार्थं कावेर्या: अनुसरन्ति स्म । 
दीक्षित: वराक: स्थूल काय: । अत: ते तस्य पञ्चकच्छान् द्राविड़वत् उदरे परिवेष्टितो भूत्वा कावेरी नद्यां संध्या समये अर्घ्यं ददति स्म । 
तस्मिन् समये तस्य उदरकक्ष्यं किञ्चित् शिथलीभूत्वा भूमौ पतति स्म । 

एतानि सर्वाणि मन्दबुद्धय: दृष्वा चिन्तितवान् "आम् । सन्ध्यावन्दनस्य अर्घ्यप्रदान समये यदा अस्मत् गुरुवर्य: तस्य उत्तरीयान् भूमौ निपातयति, 
एवमेव वयमपि करिष्याम: - एवं चिन्तयित्वा उद्युक्ताःअभवन् सर्वे ॥

भवदीयः,
श्रीराम


More information about the Advaita-l mailing list