[Advaita-l] ***UNCHECKED*** Avadhuta Gita 1-10

Venkatesh Murthy vmurthy36 at gmail.com
Tue Dec 12 11:32:58 EST 2017


Namaste

अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् ।
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ॥ १०॥

I, the One only, am all this, beyond space and continuous. How can I see
the Self as visible or hidden?

The Self cannot be a visible Object like a pot because it is always the
Subject. At the same time the Self cannot be hidden because it is Aham
Pratyaya Vishaya.

In Brihadaranyaka Bhashya 3-4-2 for दृष्टेर्द्रष्टारं न पश्येः  Adi Sankara
has said -

तमिममर्थमाह — लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया
दृष्ट्या व्याप्तारम् , न पश्येः ; यासौ लौकिकी दृष्टिः कर्मभूता, सा
रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं
व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः । तथा
श्रुतेः श्रोतारं न शृणुयाः । तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न
मन्वीथाः । तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः । एष
वस्तुनः स्वभावः ; अतः नैव दर्शयितुं शक्यते गवादिवत् ॥
Sri Gurudeva Datta ||

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list