[Advaita-l] Hymn on Dharmaśāstā (Lord Ayyappan) composed by the Sringeri Jagadguru

V Subrahmanian v.subrahmanian at gmail.com
Wed Aug 9 07:26:41 EDT 2017


Here is the hymn composed by the Acharya upon his visit to the Shabarimala
temple:

॥धर्मशास्ता स्तोत्रम्॥


जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।

तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥१॥


श्रीशङ्करार्यैर्हि शिवावतारैः धर्मप्रचाराय समस्तकाले ।

सुस्थापितं शृङ्गमहीध्रवर्ये पीठं यतीन्द्राः परिभूषयन्ति ॥२॥


तेष्वेव कर्मन्दिवरेषु विद्यातपोधनेषु प्रथितानुभावः ।

विद्यासुतीर्थोऽभिनवोऽद्य योगी शास्तारमालोकयितुं प्रतस्थे ॥३॥


धर्मस्य गोप्ता यतिपुङ्गवोऽयं धर्मस्य शास्तारमवैक्षतेति ।

युक्तं तदेतद्‍ध्युभयोस्तयोर्हि सम्मेलनं लोकहिताय नूनम् ॥४॥


कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः

श्रौतोऽयं न खलु विलोपमाप तत्र ।

हेतुः खल्वयमिह नूनमेव नान्यः

शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥५॥

ज्ञानं षडास्यवरतातकृपैकलभ्यं मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।

ज्ञानं च मोक्ष उभयं तु विना श्रमेण प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥६॥

यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।

शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥७॥

शबरगिरिनिवासः सर्वलोकैकपूज्यः नतजनसुखकारी नम्रहृत्तापहारी ।

त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता हरिहरसुतदेवः सन्ततं शं तनोतु ॥८॥


इति शृङ्गगिरि जगद्गुरु श्री श्री भारतीतीर्थ महास्वामिभिः विरचितं धर्मशास्ता
स्तोत्रम् ।


More information about the Advaita-l mailing list