[Advaita-l] गीतासारगुर्वष्टोत्तरशतनाम स्तोत्रम् - 108 names of Chandrasekhara Bharati from Bhagavat Gita

Venkata sriram P venkatasriramp at yahoo.in
Wed Apr 12 03:38:57 EDT 2017


Namaste,

This is a hymn of 108 names composed by Brahmasri R.Krishnaswami Iyer which 
is a praise on the great Jivanmukta of Sringeri Shri.Chandrasekhara Bharati
Mahaswamigal.  

The specialty is that all these 108 epithets are taken from Bhagavat Gita 
that describe attributes of Jnani.  Thus, these are equally attributed
to Shri.Chandrasekhara Bharati Swamigal of Sringeri.

गीतासारगुर्वष्टोत्तरशतनाम स्तोत्रम्
****************************************

प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः ।
योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥
स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः ।
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥
स्थिरबुद्धिरसंमूढो जितात्मा विगतस्पृहः ।
सर्वसंकल्पसंन्यासी भक्तः सङ्गवर्जितः ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥
ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः ।
वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥
सर्वारंभपरित्यागी कृत्स्नवित कृत्स्नकर्मकृत ।
यतेन्द्रियमनोबुद्धिर्मुनिमोक्षपरायणः ॥
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
अनिकेतः स्थिरमतिर्महात्मा दृढनिश्चयः ॥
निर्द्वन्दो नित्यसत्तवस्थो निर्योगक्षेम आत्मवान ।
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
निस्त्रैगुण्यो वशी ज्ञानी समलोष्टश्मकाञ्चनः ॥
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।
त्यागी सत्वसमाविष्टो मेधावी छिन्नशंशयः ॥
विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः ।
अन्तःसुखोऽन्तरारामः संतुष्टः सर्ववित्पुमान ॥
सर्वभूतात्मभूतात्मा तत्ववित्समदर्शनः ।
गतिर्भर्ता प्रभूः साक्षी निवासः शरणं सुहृत् ॥
आत्मतृप्तो गुरुः पूज्यो गरीयान पुरुषोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा कृतकृत्यो विराजते ॥
स्थितप्रज्ञो गुणातीतो लोकानुग्रहकाम्यया ।
शारदायाश्चरा मूर्तिः श्रृंङ्गशैले जगत्गुरुः॥
गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः ।
आचार्येन्द्रपदांभोजे भक्त्या माला समर्प्यते ॥
वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम ।
कथमन्याः समर्थाः स्युर्वचो भागवतीर्विना ॥

***इति गीतासारगुर्वष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥****

Regs,
Sriram


More information about the Advaita-l mailing list