[Advaita-l] अद्वैतमते इन्द्रियाणि

D.V.N.Sarma డి.వి.ఎన్.శర్మ via Advaita-l advaita-l at lists.advaita-vedanta.org
Sat Apr 26 18:13:27 CDT 2014


नाना छिद्र घटोदर स्थत महादीपप्रभाभास्वरम्
ज्ञानं यस्यतु चक्षुरादि करण द्वारा बहिस्सपन्दते
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।

With my little knowledge of sanskrit I am able to connect what you
have written with this
sloka. Why dont you give a translation of what you want to say so that
everybody can follow.
The purpose of the list I think is to communicate to maximum possible
number of people.
regards,
Sarma.


2014-04-26 13:07 GMT+05:30 श्रीमल्ललितालालितः via Advaita-l
<advaita-l at lists.advaita-vedanta.org>:
>
> अद्वैतमते तावदिन्द्रियाणि पृथङ्मनसः स्वीक्रियन्ते , श्रुतिबलात् ,
> पञ्चीकरणेनोत्पत्त्यभिधानात् च भगवत्पादेन ।
> इदानीं तेषां किं प्रयोजनम् इति चिन्तयामः ।
> वेदान्तिनो हि प्रत्यक्षस्थले विषयदेशपर्य्यन्तं मनोगमनं स्वीकुर्व्वन्ति ।
> तथा च चक्षुरादीनां तद्द्वारत्वमेव । चाक्षुषं च मनसो वृत्तिविशेषः
> चक्षुरिन्द्रियद्वारा बहिर्निर्ग्गतः । तथैव श्रोत्रादिस्थले मनोऽभेदेऽपि
> वृत्तौ द्वारप्रयुक्तवैजात्येन वैजात्यम् । अतो न सङ्करः ।
> किञ्च यदि द्वारत्वमेव स्वीक्रियते चक्षुरादीनां तदा गोलकमात्रस्यापि
> द्वारत्वोपपत्तौ किम् अतीन्द्रियेन्द्रियकल्पनेन इति न शङ्क्यम् ।
> गोलकसत्त्वेऽप्यन्धत्वादीनामन्यथानुपपत्त्या तत्कल्पनात् । न च तर्हि
> तदेवास्तु किं गोलकेन इति तु न वाच्यं , गोलकादीनामुपलब्धेः ।
>
> इत्थं द्वारत्वस्वीकारेणैव सर्व्वस्मिन्नुपपन्ने चक्षुरादीनां विषयसन्निकर्षः
> स्वीक्रियते न वा । स सन्निकर्षश्च कीदृशः । तत्र चक्षुरादिव्यापारो हेतुर्न
> वा । इत्यादिकं ग्रन्थवाक्यान्यादायैव समर्थयन्तु विज्ञाः ।
>
>
>
> *श्रीमल्ललितालालितः *www.lalitaalaalitah.com
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list