[Advaita-l] ’upAsana' and 'bhakti'

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Wed Mar 7 03:05:04 CST 2012


*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com/>
lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*



On Wed, Mar 7, 2012 at 12:25, V Subrahmanian <v.subrahmanian at gmail.com>wrote:

> In the jIvanmuktivivekaH [Theosophical Society Edition] in the Sanskrit
> part on page 67 at the bottom you have this sentence: वासनाक्षयप्रकरणम् -
>

I saw it. Thanks for pointing to your source.


>  'अथ स्थित्वा निराहारम्’ इत्यादिमन्त्रेण संकल्पं कृत्वा सावधानत्वेनावस्थानं
> तत्र त्याग इति चेत् । अत्रापि न तद्दण्डनिवारितम् । प्रैषमन्त्रेण संकल्प्य
> अप्रमत्तत्वेनावस्थातुं शक्यत्वात् । वैदिकमन्त्रानधिकारिणां तु भाषया
> संकल्पोऽस्तु ।
>

प्रकरणमेतद्वासनात्यागस्य । स च न सम्भवति , अमूर्त्तत्वात् - इति शङ्का ।
तन्निवारणायामूर्त्तनामपि भुजिक्रियानिद्रादीनामुपवासजागरणादिरूपं
त्यागमभिहितम् । तद्वदेव वासनादीनाममूर्त्तानां त्याग उपपादितः ।
ननु न भोजनत्यागादिना वासनात्यागस्य साम्यम् । तेषां मन्त्रेण
सङ्कल्प्यानुष्ठितत्वात् । - इत्याह - अथेति ।
वासनात्यागस्यापि मन्त्रेण सङ्कल्प्यानुष्ठानं सममित्याह - प्रैषेति ।
संन्यासिनां प्रैषेण - भूरादिलोकत्यागसङ्कल्पात्मकेन मन्त्रविशेषेण
लोकवासनादीनां त्यागं सङ्कल्प्याप्रमत्तत्वेनावस्थानं वासनात्यागः ।
असंन्यासिनान्तु प्रैषेऽनधिकारात् मन्त्रान्तरेण सङ्कल्पः । वेदबाह्यानां -
स्त्रीशूद्रादीनां तु भाषया वासनात्यागसङ्कल्पो भवति ।
अतो नात्र संन्यासविषयकसङ्कल्पस्य वार्त्ता । अतः प्रैषं विनापि भाषया
संन्याससङ्कल्पस्सम्भवति इति विद्यारण्यानामपकीर्त्तये एवोक्तं स्यात् ।

 [ In what I stated earlier '....if the person is not conversant with
> Sanskrit.' pl. change it to read  :    '...People who are not entitled to
> utter Vedic mantras can declare
> their intention using common language.]
>

Even this is not enough to save your view.


More information about the Advaita-l mailing list