[Advaita-l] Taittiriya Brahmana question

Venkatesh Murthy vmurthy36 at gmail.com
Sun Jun 26 05:51:54 CDT 2011


नमस्ते

2011/6/25 श्रीमल्ललितालालितः <lalitaalaalitah at gmail.com>:
> *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
> lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*
>
>
>
>
> परमतपरीक्षणं कथमविद्वत्तां सूचयेत् । आक्षेपकोऽविद्वानिति वचनं खिन्नताञ्च
> द्योतयति ।
>
>
>> शिवसेनानीमहोदयेन ब्रह्मोपादानत्वविषये
>> समञ्जसं लिखितं तत् द्रष्टव्यम् ।
>>
>
> तदद्वैतमतपोषकमेव ।
>
> भवतु नाम । मया व्रणो न ते स्यादित्यसंवाद एवोचितः ।

अत्र कश्चित् संभ्रमः जातः इति प्रतीयते । अद्वैतमते विशिष्टाद्वैतमते च
ब्रह्मोपादानकारणत्वं अङ्गीकृतं इति स्पष्टम् । किंस्विद् वनमित्यादि
तैत्तिरीयब्राह्मणश्रुतिवचनस्य अद्वैतमते का व्याख्या इति मम मूलप्रश्नः
। सायणभाष्यं द्रष्टव्यम् इति भवानेवावदत् । धन्यवादः ।

-वेङ्कटेशः


More information about the Advaita-l mailing list