[Advaita-l] Bhakti/Bhakta connoting Jnani/Jnanam in Shankara's GitA BhAShyam

V Subrahmanian v.subrahmanian at gmail.com
Tue Jul 12 05:27:25 CDT 2011


श्रीगुरुभ्यो नमः

In the sequel a number of instances from the Bhagavadgita bhashya of
Shankaracharya are given.  I have copied the verses and the bhashyam from
the Gitasupersite which also has a word-search facility.  I used the words
'bhakti/bhakta, madbhakta/bhaktyA, etc.' I have chosen only those verses
where Shankara has equated the words bhakta/bhakti with / as non-different
from jnanam/jnani.  One could keep Swami Gambhiranandaji's translation at
hand while reading these, in case of need. The list may not be exhaustive
but fairly covering the GitAprasthAna. The ultimate message is: For Shankara
a Bhakta is a Jnani and Bhakti is non-different from jnAnam.

Readers could add other instances observed by them to this thread.

तेषां ज्ञानी नित्ययुक्त कभक्तिर्विशिष्यते।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।।7.17।।
//तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वात् नित्ययुक्तः भवति
एकभक्तिश्च, अन्यस्य भजनीयस्य अदर्शनात्; अतः स एकभक्तिः विशिष्यते विशेषम्
आधिक्यम् आपद्यते, अतिरिच्यते इत्यर्थः। प्रियो हि यस्मात् अहम् आत्मा
ज्ञानिनः, अतः तस्य अहम् अत्यर्थं प्रियः; प्रसिद्धं हि लोके 'आत्मा प्रियो
भवति' इति। तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियो भवतीत्यर्थः। स च
ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थं प्रियः।। न तर्हि आर्तादयः त्रयः
वासुदेवस्य प्रियाः? न; किं तर्हि? -- ।।7.17।।//

7.18:
उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः। न हि कश्चित्
मद्भक्तः मम वासुदेवस्य अप्रियः भवति। ज्ञानी तु अत्यर्थं प्रियो भवतीति
विशेषः। तत् कस्मात् इत्यत आह -- ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं
निश्चयः। आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् 'अहमेव भगवान्
वासुदेवः न अन्योऽस्मि' इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म
गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः।।ज्ञानी पुनरपि स्तूयते:

//बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान्
प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते। कथम्?
वासुदेवः सर्वम् इति। यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा;
न तत्समः अन्यः अस्ति, अधिको वा। अतः सुदुर्लभः, 'मनुष्याणां सहस्रेषु' इति हि
उक्तम्।।आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते -- ।।7.19।।

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।।
//...मद्भक्ता यान्ति मामपि। एवं समाने अपि आयासे मामेव न प्रपद्यन्ते
अनन्तफलाय, अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ।//

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।8.22।।
//सः भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया। //

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।।9.14।।
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्।।9.15।।

ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम्
ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते। तच्च ज्ञानम् --
एकत्वेन' एकमेव परं ब्रह्म' इति परमार्थदर्शनेन यजन्तः उपासते। केचिच्च
पृथक्त्वेन ' आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः' इति उपासते।
केचित्' बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरुपः' इति तं विश्वरूपं
सर्वतोमुखं बहुधा बहुप्रकारेण उपासते।।यदि बहुभिः प्रकारैः उपासते, कथं त्वामेव
उपासते इति, अत आह -- ।।9.15।।

भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन।
ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।।

// भक्त्या तु किंविशिष्टया इति आह -- अनन्यया अपृथग्भूतया, भगवतः अन्यत्र
पृथक् न कदाचिदपि या भवति सा त्वनन्या भक्तिः। सर्वैरपि करणैः वासुदेवादन्यत् न
उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः
विश्वरूपप्रकारः हे अर्जुन, ज्ञातुं शास्त्रतः। न केवलं ज्ञातुं शास्त्रतः,
द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं
परंतप।।अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः
अनुष्ठेयत्वेन समुच्चित्य उच्यते -- ।।11.54।।//

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।12.14।।

//...... यः ईदृशः मद्भक्तः सः मे प्रियः। 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च
मम प्रियः (गीता 7.17)' इति सप्तमे अध्याये सूचितम्, तत् इह प्रपञ्चते। //

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः।।12.19।।
//स्थिरमतिः* स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिः। भक्तिमान् मे प्रियः
*नरः।।'अद्वेष्टा सर्वभूतानाम् (गीता 12।13)' इत्यादिना अक्षरोपासकानां
निवृत्तसर्वैषणानां संन्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम्
उपसंह्रियते --

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः।।12.20।।
//'प्रियो हि ज्ञानिनोऽत्यर्थम्' इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम्'
भक्तास्तेऽतीव मे प्रियाः' इति। यस्मात् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतः
विष्णोः परमेश्वरस्य अतीव प्रियः भवति, तस्मात् इदं धर्म्यामृतं मुमुक्षुणा
यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः।//

All other bhakta lakshana verses in 12th chapter.

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।
विविक्तदेशसेवित्वमरतिर्जनसंसदि।।13.11।।

//मयि च इश्वरे अनन्ययोगेन अपृथक्समाधिना 'न अन्यो भगवतो वासुदेवात् परः अस्ति,
अतः स एव नः गतिः' इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनं
भक्तिः न व्यभिचरणशीला अव्यभिचारिणी।* सा च ज्ञानम्*।//

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते।।13.18।।

//मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत्
पश्यति शृणोति स्पृशति वा 'सर्वमेव भगवान् वासुदेवः' इत्येवंग्रहाविष्टबुद्धिः
*मद्भक्तः।* स एतत् यथोक्तं *सम्यग्दर्शनं विज्ञाय*, मद्भावाय मम भावः मद्भावः
परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति।।//

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।।18.54।।

//एवंभूतः ज्ञाननिष्ठः, मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमां
ज्ञानलक्षणां चतुर्थीं लभते, 'चतुर्विधा भजन्ते माम् (गीता 7।16)' इति हि
उक्तम्।18.54।।

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।।18.55।।
// ततः *ज्ञानलक्षणया भक्त्या *माम् अभिजानाति यावान् अहम् उपाधिकृतविस्तरभेदः,
यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तं माम्
अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति। ततः माम्
एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम्।..........
शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिहेतुं सहकारिकारणं बुद्धिविशुद्धत्वादि
अमानित्वादिगुणं च अपेक्ष्य जनितस्य *क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य
*कर्तृत्वादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसंन्याससहितस्य
* स्वात्मानुभवनिश्चयरूपेण* यत् अवस्थानम्, सा *परा ज्ञाननिष्ठा इति
उच्यते।*सा इयं ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी
भक्तिरिति उक्ता। तया
परया भक्त्या भगवन्तं तत्त्वतः अभिजानाति, यदनन्तरमेव
ईश्वरक्षेत्रज्ञभेदबुद्धिः अशेषतः निवर्तते। अतः *ज्ञाननिष्ठालक्षणतया भक्त्या
*माम् अभिजानातीति वचनं न विरुध्यते।

ऒम् तत् सत्


More information about the Advaita-l mailing list