[Advaita-l] Krishna Janmashtami

V Subrahmanian v.subrahmanian at gmail.com
Mon Aug 22 02:40:01 CDT 2011


संक्षेपतोऽतिमनोहरं श्रीकृष्णचरितं यद्रचितं भवद्भिः तदत्युत्तमम् । अत्र
प्रश्नद्वयं प्रकटयामि -
१. राधाविषयककथनं श्रीमद्भागवतेऽन्तर्गतं वा ?
२. यद्यपि श्रीकृष्णश्चन्द्रवंशीयः तथापि अत्र पूजान्ते किमर्थं चन्द्राय
अर्घ्यप्रदानं विहितम् ? चन्द्रार्घ्यप्रदानश्लोक एक एवं वर्तते -
अत्रिनेत्रसमुद्भूत क्षीरोदार्णवसम्भव ।
रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते ॥ इति ।

अत्र ’रमाभ्रातर्मनःपते’ इत्यस्य कोऽर्थः?

सुब्रह्मण्यः

2011/8/22 Anand Hudli <anandhudli at hotmail.com>

> यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
> अभ्युथानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
>
> इति वचनमनुसृत्य भगवान् विष्णुः द्वापरयुगस्यान्तकाले भारतदेशेऽस्मिन्
> श्रीकृष्णरूपेणावातरत्। तदनुसारेण श्रावणमासस्य कृष्णपक्षस्याष्टम्यां तिथौ
> रोहिणीनक्षत्रे निशीथकाले भगवतः श्रीकृष्णस्य जन्माभवत्। तस्य जन्मोत्सवः
> श्रीकृष्णजन्माष्टमीरुपेण प्रसिद्धः। तस्य मातापितरौ देवकीवसुदेवौ। देवकी
> कंसस्य भगिनी।
> विवाहानन्तरं देवकीवसुदेवयोः स्वगृहं प्रत्यागमनकाले मार्गे एकाकाशवाणी
> सञ्जाता
> यदनयोः अष्टमगर्भादुत्पन्नो बालकः कंसं हनिष्यति इति। तस्या भीतः कंसो देवकीं
> हन्तुमुद्यतोऽभवत्। किंतु "अवध्याः स्त्रियः" इति वसुदेवस्य वचनात् तथा च
> "अस्याः सर्वान् पुत्रान् तुभ्यं समर्पयामि" इति प्रतिज्ञातः सन्तुष्टः कंसः
> देवकीवसुदेवौ कारागारे निक्षिप्तवान् । तयोश्च नवजातान् सप्तशिशून्
> निर्दयतापूर्वकेनाहनत्। अष्टमः शिशुः श्रीकृष्णः कठोरकारागारे प्रादुरभवत्।
> तदानीं शिशुः अवदत् ’मां नन्दगोपस्य गृहे यशोदापार्श्वे नीत्वा तत्र
> यशोदागर्भात् संभूतां कन्याम् अत्र समानय’। पित्रा वसुदेवेन तथैव कृतम्। अनया
> घटनया सर्वे कारागाररक्षका अनभिज्ञा आसन्। परेद्युः कारागाररक्षकैः
> शिशूत्पत्तिं श्रुत्वा कंसस्तत्र शीघ्रमागत्य तामेव योगमायां कन्यां
> हन्तुमुद्यतोऽभवत्। किंतु आकाशे उत्सर्पत्या कन्यया एवमुक्तं यत् किमर्थं मां
> मारयितुं प्रयत्नं करोषि तव हन्ता त्वन्यत्र वर्धते इति।
>
> श्रीकृष्णः नन्दगोपगृहे यशोदया पोषितः शुक्लपक्षचन्द्र इव अवर्धत । शैशवकाले
> एव
> कंसप्रेषितान् अनेकराक्षसानहनत्। बाल्यकाले यमुनातटे अन्यैः गोपबालकैः सह
> धेनूः
> अचारयत्। गोपिकानां मनांसि अचोरयत्। तासां मनस्तु कन्दर्पजनके मदनमोहने
> श्रीकृष्णे सदासक्तं आसीत्। गोपीषु राधा श्रीकृष्णस्य अतिप्रिया आसीत्।
>
> श्रीकृष्णः अन्ततः कंसमप्यहनत्। महाभारतयुद्धे सारथिरूपेण अर्जुनस्य
> महत्साहायमकरोत् यस्य फलतः सर्वे कौरवा विनाशिताः पाण्डवाश्च विजयिनोऽभवन् ।
> अतः श्रीकृष्णजन्माष्टमीरात्रौ श्रीकृष्णाय अर्घ्यप्रदानं महाफलप्रदम्।
> चन्द्रस्य अर्घ्यमन्त्रौ-
> क्षीरोदार्णवसंभूत अत्रिगोत्रसमुद्भव ।
> गृहाणार्घ्यं शशाङ्केश रोहिणीसहितो मम ॥
> रोहिणीसहितचन्द्रमसे इदमर्घ्यं समर्पयामि ।
> ज्योत्स्नापते नमस्तुभ्यं ज्योतिषां पतये नमः।
> नमस्ते रोहिणीकान्त अर्घ्यं नः प्रतिगृह्यताम्॥
> रोहिणीसहितचन्द्रमसे इदमर्घ्यं समर्पयामि ।
> श्रीकृष्णस्य अर्घ्यमन्त्रः-
> जातः कंसवधार्थाय भूभारोत्तारणाय च ।
> कौरवाणां विनाशाय दैत्यानां निधनाय च ॥
> पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ।
> गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे ॥
> देवकीसहितश्रीकृष्णाय इदमर्घ्यं समर्पयामि ।
> इति शङ्खेनार्घ्यं दद्यात् ।
>
> आनन्दः
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list