[Advaita-l] ChidAbhAsa and Ishvara

श्रीमल्ललितालालितः lalitaalaalitah at gmail.com
Fri Aug 5 02:43:58 CDT 2011


*मायाऽभासेन जीवेशौ करोति - इति श्रुति*रिति *मधुसूदनाः* ।
त एव पुनर्वार्त्तिककारमतानुवादावसरे - *अज्ञानोपहित
आत्माऽज्ञानतादात्म्यापन्नस्स्वचिदाभासाविवेकादन्तर्यामी साक्षी जगत्कारणमिति च
कथ्यते* इतीश्वरलक्षणं वदन्ति ।
अपि चैतदेव *सङ्क्षेपशारीरके *-
*साभासाज्ञानवाची यदि भवति पुनर्ब्रह्मशब्दः*
इत्यनेनानूदितम् ।
सर्वथाऽभासवादे ईश्वरस्वरूपान्तर्गतत्वमेवाभासस्य । प्रतिबिम्बवादेऽवच्छेदवादे
चाभासस्य प्रसङ्गाभावादेव प्रकृतानुपयोगित्वम् ।
*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*


More information about the Advaita-l mailing list