[Advaita-l] Lingashtakam - Sung by Vijay Prakash

Venkatesh Murthy vmurthy36 at gmail.com
Mon Nov 20 08:42:48 EST 2017


Namaste

This is a popular song but playback singer Vijay Prakash has sung it with a
new refreshing and soothing tune and beautiful accompanying music.  Hats
off to Vijay Prakash -

https://youtu.be/ySJOObFRK9s

Stotra and translation -

https://sanskritdocuments.org/doc_shiva/lingashhMean.html?lang=sa
Here we have to remember the Brahma Sutra आकाशस्तल्लिङ्गात् ॥ 1-1-22 ॥ Why?
In this Sutra Sankara Bhashya has shown the word Akaasha in some
Upanishad Vakyas is Brahman only because there is the indicatory mark
Linga. It cannot be the material Akaasha or Bhoota Akasha. Example in the
Chandogya Vakya  सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते the
Akaasha word is really Brahman only. Why? Because there is a Linga of
Brahman in that Vakya. The Origin of all things is Brahman. Another Linga
of Brahman is Infinity. That is why Adi Sankara says - तच्चानन्त्यं ब्रह्म
लिङ्गम्

Sankara Bhashya for 1-1-22 - आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम् । कुतः ?
तल्लिङ्गात् । परस्य हि ब्रह्मण इदं लिङ्गम् — ‘सर्वाणि ह वा इमानि
भूतान्याकाशादेव समुत्पद्यन्ते’ इति । परस्माद्धि ब्रह्मणो
भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा । ननु भूताकाशस्यापि वाय्वादिक्रमेण
कारणत्वं दर्शितम् । सत्यं दर्शितम् । तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात् ,
आकाशादेवेत्यवधारणं सर्वाणीति च भूतविशेषणं नानुकूलं स्यात् । तथा ‘आकाशं
प्रत्यस्तं यन्ति’ इति ब्रह्मलिङ्गम् , ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः
परायणम्’ इति च ज्यायस्त्वपरायणत्वे । ज्यायस्त्वं ह्यनापेक्षिकं
परमात्मन्येवैकस्मिन्नाम्नातम् — ‘ज्यायान्पृथिव्या
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’ (छा. उ. ३ । १४ । ३)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=3&id=Ch_C03_S14_V03&hl=ज्यायान्पृथिव्या
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः> इति । तथा परायणत्वमपि
परमकारणत्वात्परमात्मन्येव उपपन्नतरं भवति । श्रुतिश्च — ‘विज्ञानमानन्दं
ब्रह्म रातिर्दातुः परायणम्’ (बृ. उ. ३ । ९ । २८)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V28g&hl=विज्ञानमानन्दं
ब्रह्म रातिर्दातुः परायणम्> इति । अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं
निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतः ; तं
चाकाशमुद्गीथे सम्पाद्योपसंहरति — ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ (छा.
उ. १ । ९ । २)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=1&id=Ch_C01_S09_V02&hl=स
एष परोवरीयानुद्गीथः स एषोऽनन्तः> इति । तच्चानन्त्यं ब्रह्मलिङ्गम् ।
यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमः —
प्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते ।
दर्शितश्च ब्रह्मण्यप्याकाशशब्दः ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ.
८ । १४ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S14_V01&hl=आकाशो
वै नाम नामरूपयोर्निर्वहिता> इत्यादौ । तथाकाशपर्यायवाचिनामपि ब्रह्मणि
प्रयोगो दृश्यते — ‘ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः’
(ऋ. सं. १ । १६४ । ३९) ‘सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता’
(तै. उ. ३ । ६ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=3&id=T_C03_S06_V01&hl=सैषा
भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता> ‘ॐ कं ब्रह्म खं ब्रह्म’ (छा.
उ. ४ । १० । ४)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=4&id=Ch_C04_S10_V04&hl=ॐ
कं ब्रह्म खं ब्रह्म> ‘खं पुराणम्’ (बृ. उ. ५ । १ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=5&id=BR_C05_S01_V01&hl=खं
पुराणम्> इति चैवमादौ । वाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य
वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा । ‘अग्निरधीतेऽनुवाकम्’ इति हि
वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यते । तस्मादाकाशशब्दं ब्रह्मेति
सिद्धम् ॥ २२ ॥

The most wonderful Linga is in Chidambaram. There is Akaasha Linga. We
cannot see it but can see only empty space there. This is to show Nirguna
Brahman cannot be captured by any image like Saguna Brahman. It has no
qualities and no dimensions. Therefore we cannot visualize it in some
image.

https://indianmandirs.blogspot.in/2013/11/chidambaram-natraja-swamy-temple-akasha.html

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list