[Advaita-l] kAmagItAh

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sun Nov 5 08:12:44 EST 2017


Bhagavadgita is too much with us. For a change the following is the
Kamagita from Aswamedhaparva of Mahabharata recited by Lord Krishna.

कामगीताः
अत्र गाधाः कामगीताः कीर्तयन्ति पुराविदः।
शृणु संकीर्त्यमानास्ताः निखिलेन य़ुधिष्ठिर।।
नाऽहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्।
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्।
तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्यहम्।।
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः।
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम्।।
यो मां प्रयतते हन्तुं वेदैर्वेदान्त साधनैः।
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम्।।
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः।
भावो भवामि तस्याहं स च मां नावबुध्यते।।
यो मां प्रयतते हन्तुं तपसा संश्रितव्रतः।
ततसितपसि तस्याथ पुनः प्रादुर्भवाम्यहम्।।
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः।
तस्य मोक्षरतिस्थस्य नृत्यामि हसामि च।।
अवध्यः सर्वभूतानां अहमेकः सनातनः।।


regards,
Sarma.


More information about the Advaita-l mailing list