[Advaita-l] 'Vastu pariccheda'

V Subrahmanian v.subrahmanian at gmail.com
Sat Dec 16 12:22:33 EST 2017


Namaste Sri Anand ji,

Bhagavatpada has in the Taittirya Upanishad bhashya clearly stated the
concept of 'vastu pariccheda.'

Brahmanandavalli 1.1:  in the context of concluding the explanation for
'satyam jnanam anantam', the anantam being established on three grounds:
desha, kaala and vastu.

 त्रिविधं ह्यानन्त्यम् - देशतः कालतो वस्तुतश्चेति । तद्यथा - देशतोऽनन्त
आकाशः ; न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चानन्त्यं वस्तुतश्च
आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण
आकाशवत्कालतोऽप्यन्तवत्त्वम् । अकार्यत्वात् । कार्यं हि वस्तु कालेन
परिच्छिद्यते । अकार्यं च ब्रह्म । तस्मात्कालतोऽस्यानन्त्यम् । तथा वस्तुतः ।
कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य
अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य
बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत
 इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति ।* स चान्तो भिन्नेषु वस्तुषु दृष्टः* ।
नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं
ब्रह्मण इति, उच्यते - सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां
कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेत् , न ;
अनृतत्वात्कार्यस्य वस्तुनः । न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति,
यतः कारणबुद्धिर्विनिवर्तेत ; ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव
सत्यम्’ (छा. उ. ६ । १ । ४)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S01_V04&hl=%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%A3%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8B%20%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%A7%E0%A5%87%E0%A4%AF%E0%A4%82%20%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%20%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D>
एवं
सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं
ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः ; तस्येदं कारणम् ; तस्मात्सिद्धं
देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके
किञ्चिद्दृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्यत्वात्कालतः
; *तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः* । अत एव निरतिशयसत्यत्वम् ॥

I request members who require the translation to kindly look up Swami
Gambhirananda's book for the above referenced portion.

My question is:  The overall purport or principle underlying the 'vastu
parcchedatva' is 'bheda' which is admitted by all as 'anyonyābhāva'.  Is
there any reference in the nyāya or mīmāmsā or vyākaraṇa śāstra for the
concept of vastu paricchedatva?

Thanks and regards
subbu


More information about the Advaita-l mailing list