[Advaita-l] What kind of words are there?

V Subrahmanian v.subrahmanian at gmail.com
Fri Feb 19 04:45:19 CST 2016


Where do words find application? In other words, in which instances can one
use words? This has been stated by Shankaracharya, in the following places
in the Prasthānatraya bhāṣya.  This statement of Shankara is based on the
Vyākaraṇa śāstra, reference of which is provided at the end of this post.


In the Bh.Gītābhāṣya 13.12 and elsewhere too, Shankara has said:

उपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इति ।* सर्वो हि शब्दः अर्थप्रकाशनाय
प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण
सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; न अन्यथा, अदृष्टत्वात् ।* तत् यथा
— ‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’
‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः । न तु ब्रह्म
जातिमत्, अतः न सदादिशब्दवाच्यम् । नापि गुणवत्, येन गुणशब्देन उच्येत,
निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं
शान्तम्’ (श्वे. उ. ६-१९)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=svt&page=06&hval=%E2%80%98%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%95%E0%A4%B2%E0%A4%82%20%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%82%20%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E2%80%99%20(%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87.%20%E0%A4%89.%20%E0%A5%AC-%E0%A5%A7%E0%A5%AF)#SV_C06_V19>
इति
श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न
केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २-९-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02#T_C02_S09_V01>
इत्यादिश्रुतिभिश्च
॥

//From reason too it follows that Brahman cannot be expressed by such words
as being, non-being, etc.* For, every word used for expressing an object,
when heard by listeners, makes them understand its meaning through the
comprehension of its significance with the help of genus, action, quality
and relation; not in any other way, because that is not a matter of
experience.//*


माण्डूक्योपनिषद्भाष्यम् । मन्त्रः ७ - भाष्यम्
चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्याह — नान्तःप्रज्ञमित्यादिना । सर्व
शब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानभिधेयत्वमिति विशेषप्रतिषेधेनैव
तुरीयं निर्दिदिक्षति

बृहदारण्यकोपनिषद्भाष्यम् । द्वितीयोऽध्यायः । तृतीयं
ब्राह्मणम् । मन्त्रः ६ - भाष्यम्
ननु कथम् आभ्यां ‘नेति नेति’ (बृ. उ. २-३-६)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=02&hval=%E2%80%98%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BF%20%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BF%E2%80%99%20(%E0%A4%AC%E0%A5%83.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%A9-%E0%A5%AC)#BR_C02_S03_V06>
इति
शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितमिति, उच्यते — सर्वोपाधिविशेषापोहेन ।
यस्मिन्न कश्चिद्विशेषोऽस्ति — *नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो
वा ; तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ; *न चैषां कश्चिद्विशेषो
ब्रह्मण्यस्ति ; अतो न निर्देष्टुं शक्यते — इदं तदिति — गौरसौ स्पन्दते
शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा ; अध्यारोपितनामरूपकर्मद्वारेण
ब्रह्म निर्दिश्यते‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३-९-२८)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=03&hval=%E2%80%98%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%82%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E2%80%99%20(%E0%A4%AC%E0%A5%83.%20%E0%A4%89.%20%E0%A5%A9-%E0%A5%AF-%E0%A5%A8%E0%A5%AE)#BR_C03_S09_V28g>
 ‘विज्ञानघन एव ब्रह्मात्मा’ (बृ. उ. २-४-१२)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=02&hval=%E2%80%98%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%98%E0%A4%A8%20%E0%A4%8F%E0%A4%B5%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%E2%80%99%20(%E0%A4%AC%E0%A5%83.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%AA-%E0%A5%A7%E0%A5%A8)#BR_C02_S04_V12>
इत्येवमादिशब्दैः
। यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम्, तदा न
शक्यते केनचिदपि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः — यदुत
प्राप्तनिर्देशप्रतिषेधद्वारेण ‘नेति नेति’ (बृ. उ. २-३-६)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=02#BR_C02_S03_V06>
इति
निर्देशः ॥

Taittiriya Up. 2.1.1 [While discussing 'satyam jnānam anantam brahma' of
the mantra:

विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो
ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत्,
अक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ ; तस्मादेव च न ज्ञानशब्दवाच्यमपि
तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते ;
न तु उच्यते, *शब्दप्रवृत्ति**हेतुजात्यादिधर्मरहितत्वात् ।* तथा
सत्यशब्देनापि । सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मणः
बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते ‘सत्यं ब्रह्म’ इति ; न तु
सत्यशब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा
इतरेतरसंनिधानादन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका
ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम् ‘यतो वाचो निवर्तन्ते
अप्राप्य मनसा सह’ (तै. उ. २-४-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02&hval=%E2%80%98%E0%A4%AF%E0%A4%A4%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A5%8B%20%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%87%20%E0%A4%85%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AF%20%E0%A4%AE%E0%A4%A8%E0%A4%B8%E0%A4%BE%20%E0%A4%B8%E0%A4%B9%E2%80%99%20(%E0%A4%A4%E0%A5%88.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%AA-%E0%A5%A7)#T_C02_S04_V01>
 ‘अनिरुक्तेऽनिलयने’ (तै. उ. २-७-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02&hval=%E2%80%98%E0%A4%85%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A5%87%E0%A4%BD%E0%A4%A8%E0%A4%BF%E0%A4%B2%E0%A4%AF%E0%A4%A8%E0%A5%87%E2%80%99%20(%E0%A4%A4%E0%A5%88.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%AD-%E0%A5%A7)#T_C02_S07_V01>
इति
च अवाच्यत्वम्, नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः ॥

That words fail to illumine Brahman has been stated by the Veda itself:


तैत्तिरीयोपनिषद्भाष्यम् । ब्रह्मानन्दवल्ली । नवमोऽनुवाकः । मन्त्रः १ - भाष्यम्
//यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न
बिभेति कुतश्चनेति ।//
Bhāṣyam:
यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अद्वयानन्दात् आत्मनः, वाचः
अभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पे अद्वयेऽपि
ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्य अप्रकाश्यैव
निवर्तन्ते स्वसामर्थ्याद्धीयन्ते ।
Since words, that is, names, that are of the domain of objects etc. that
are endowed with parts/duality, when used to denote Brahman that is
impartite, not with parts, beyond duality, do not illumine IT. The words
lose their power to illumine Brahman.
*This is based on the Vyākaraṇa Mahābhāṣya of Patanjali: *

http://www.wilbourhall.org/pdfs/mahabhashya.pdf

(Śs_2) KA_I,19.10-21.28 Ro_I,70-79

 trayī ca śabdānām pravr̥ttiḥ . jātiśabdāḥ guṇaśabdāḥ kriyāśabdāḥ iti .

My  translation: the usage of words are in these three categories: jāti
(genus/species), guṇa (attribute), kriyā (action).

I also found this in a discussion group:

https://groups.google.com/forum/#!msg/bvparishat/rEPyL3mQT_o/D2S_6grlAwAJ

// Please  note  the following --

the gamut of  शब्दs  is put under four headings in महाभाष्यम् ( ऋलुक्) --

जाति - गुण - क्रिया - संज्ञा //

subrahmanian.v


More information about the Advaita-l mailing list