[Advaita-l] Which one is first in the creation sequence

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Wed Mar 5 09:47:52 CST 2014


​​
H:
The words " mayopadhika Iswara " and " mayavishishta Iswara " are both used
frequently in the literature on vedanta. Many times in the same work
itself. Both refer to Ishwara only contextually in all the places.

But while explaining the concept of Iswara they consider maya ( avidya ) as
visheshana to Chaitanya from the standpoint of Iswara and same maya (
avidya ) as upadhi from the standpoint of Chaitanya.

This corresponds to antahkarana as being visheshana to Chaitanya from the
standpoint of jiva while the same antahkarana is an upadhi to Chaitanya
from the standpoint of Sakshi ( kutastha ) .

What is the word corresponding to Sakshi at the level of maya as described
above.

L:
ईश्वरसाक्षीपदमेव वेदान्तपरिभाषाकारेण ईश्वरसम्बन्धिप्रत्यक्षस्य
मायोपहितचैतन्यरूपस्य निरूपणाय प्रयुक्तम् । तथा हि तद्वाक्यानि :

*तदुपहितं चैतन्यम् ईश्वरसाक्षी । तच्च अनादि , तदुपाधेर्मायाया अनादित्वात् ।*

*मायावच्छिन्नं चैतन्यञ्च परमेश्वरः ।*

*मायाया विशेषणत्वे ईश्वरत्वम् उपाधित्वे साक्षित्वम् इति
ईश्वरसाक्षित्वयोर्भेदः न तु धर्म्मिणोरीश्वरतत्साक्षिणोः ।*

इति ।

तथा च एकस्यैव धर्म्मिणः चैतन्यस्य ईश्वरसाक्षित्वेन व्यवहारो भवति मायाया
उपाधित्वेन ग्रहणे इति वेदान्तपरिभाषाकारस्य रीतिः । ईश्वरस्य
ईश्वरसाक्षिणश्चाभेद एव , एकस्यैव चैतन्यस्य तत्तत्सञ्ज्ञकत्वात् ।

अत्र विशेषणोपाध्योर्भेदस्तदुक्तः स्मर्त्तव्यः । तथा हि

*विशेषणञ्च कार्य्यान्वयि वर्त्तमानं व्यावर्त्तकम् उपाधिश्च कार्य्यानन्वयी
व्यावर्त्तको वर्त्तमानश्च ।*

इति ।

इत्थं यदा जगत्कारणत्वेन चैतन्यस्य निरूपणं क्रियते तदा मायाया विशेषणत्वेन
तस्येश्वरपदवाच्यत्वम् । यदा तु ईश्वरीयज्ञानत्वेन तस्यैव चैतन्यस्य निरूपणं
क्रियते तदा मायाया जडत्वेन कार्य्यानन्वयित्वात् तस्यैव चैतन्यस्य ईश्वरपदभाज
ईश्वरसाक्षित्वेन ईश्वरीयप्रत्यक्षत्वेन व्यवहारो भवति ।


H:

Is it Bimbachaitanya?


L:

अत एव यदा बिम्बचैतन्यस्येश्वरत्वं तदा तस्यैव बिम्बस्यैव ईश्वरसाक्षित्वमपि
इति ज्ञेयम् ।

मायायाः परं बिम्बत्वप्रयोजिकायाः कार्य्यान्वयित्वं न वा इत्यादाय
विशेषणत्वोपाधित्वे भवतः तदादाय च तस्य ईश्वरत्वसाक्षित्वव्यवहारौ ।



H:

But then it is equated with Iswara itself in above quote from the previous
post.


L:

युक्तमेवोक्तं प्राक् इति इदानीमवगन्तुं शक्यते एव ।


H:

Is it that the same word Iswara should be understood contextually either as
referring to Chaitanya with maya as upadhi or to "Iswara" with maya as
visheshana to Chaitanya ?


L:

ईश्वरपदेनैव यद्यपि ईशतत्साक्षिणोर्निरूपणं कर्त्तुं शक्यते तथापि
असाङ्कर्य्याय पृथक्पदव्यावहारः कार्य्यः । अन्यथा कार्य्यान्वयित्वतदभावौ
निर्णीय तत्पदस्य किम्परत्वम् इति निर्णेयम् ।







H:
That is my question. The two terms mayavishishta and mayopadhika are both
used to address Iswara.


L:

सत्यम् ।


H:

My doubt is how can the same Iswara have maya as his upadhi as well as be
endowed with it ?


L:

तत्र विचार्य्यैव निर्णेयं यत् उपाधिपदेन विशेषणं विवक्षितं न वा ।


H:

After all Iswara is Chaitanya + maya.

Upadhi cannot be part of the vastu itself.


L:

वस्तुत्वं तु शुद्धस्यैवास्मन्मते । तच्च निरवयवम् । अत एव युक्तमेवोक्तं
स्यात् यदि एतदभिप्रेतं स्यात् ।

न च तथा विवक्षितं मिथ्याभूतस्येश्वरस्यैवात्र विचार्य्यत्वात् । अत एव
अयुक्तमिदं वचः ।

अथापि ईश्वरस्य विशिष्टचैतन्यत्वेन सांशत्वमभ्युपेयमेव ।

किञ्च भवतैवोक्तं ‘Iswara = Chaitanya + maya’ इति अतः सांशत्वमेवेश्वरस्य ।


More information about the Advaita-l mailing list