[Advaita-l] ’upAsana' and 'bhakti'

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Wed Mar 7 05:18:50 CST 2012


*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com/>
lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*



2012/3/7 V Subrahmanian <v.subrahmanian at gmail.com>

> अत्र पृच्छकः सन्न्यासिनमेव विषयीकृत्वा पृछति इति कल्पनं न युज्यते,
> गमकाभावात् ।


सत्यम् । तथैव मयोक्तम् ।
इतोऽग्रे यदुक्तं त्वया तत्सर्वं ग्रन्थस्य मदीयभावस्य चानवगतेः फलम् ।
तथापि त्वन्मतपरीक्षणाय मया किञ्चिदुच्यते ।

तेन च विद्यारण्यैः इदमुक्तम् भवति - यथा
> विशिष्टदिनाचरितोपवासजागरणादौ ’ अद्य स्थित्वा निराहारम्’ इत्यादिमन्त्रेण
> संकल्पो यथा युज्यते तथैव वासनात्यागेऽपि प्रैषमन्त्रोच्चारणेन संकल्पो
> युज्यते इति । यदा तादृशवासनात्यागाभिलाषी वैदिकमन्त्रानधिकारः  स तु भाषया
> संकल्पयतु इति विशिष्टसमाधानम् । नैतावता पृच्छकः सन्न्यासिविषयवासनात्यागमेव
> पृच्छति इति  निर्णेतुं पार्यते ।
>

सत्यम् । एवमेवोक्तं मया । अनुक्तोपालम्भ एष इति दोषश्च ।


> अपि च प्रथमे प्रमाणप्रकरणे इदमुक्तम् - (उक्तग्रन्थे तृतीयपृष्ठे) -
>
> अयं च वेदनहेतुः सन्न्यासो द्विविधः - जन्मापादककाम्यकर्मादित्यागमात्रात्मकः,
> प्रैषोच्चारणपूर्वक*दण्डधारणाद्याश्रमरूपश्चेति* । ....त्यागश्च तैत्तिरीयादौ
> श्रूयते - ’न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ’ (४.१२.३) इति ।
> अस्मिंश्च त्यागे स्त्र्योऽप्यधिक्रियन्ते ।


अस्मिन्नित्यनेन काम्यकर्ममात्रत्यागात्मकगौणसंन्यासे स्त्रीशूद्रादीनामधिकारः
समर्थितः । अत्र च प्रैषस्याङ्गता नोक्ता , न वा दण्डादेः ।
मुख्यस्तु संन्यासो नित्यनैमित्तिकादिविषयकमपि । स च
प्रैषमन्त्रादिभिर्लक्ष्यते । एतस्मिन् ब्राह्मणमात्रस्य वार्त्तिककारमतेन च
त्रैवर्णिकानामधिकारः ।


> ’भिक्षुकी’ इत्यनेन स्त्रीणामपि
> प्राग्विवाहाद्वा वैधव्यादूर्ध्वं वा सन्न्यासेऽधिकारोऽस्तीति दर्शितम्; तेन
> भिक्षाचर्यं मोक्षशास्त्रश्रवणमेकान्त आत्मध्यानं च ताभिः कर्तव्यम्,
> *त्रिदण्डादिकं
> च धार्यम्*’ इति मोक्षधर्मे चतुर्धरीटीकायां सुलभाजनकसंवादे । इति ।
>

एष ग्रन्थः प्रक्षिप्त इति सर्वत्र सूचितम् । अप्रकृतत्वात् ।
वैदिकसम्प्रदायविरोधाच्च । कर्म्ण्येवानधिकृतानां तत्त्यागस्यैवाप्रसक्तेश्च ।
अप्रकृतता च पूर्वं प्रैषदण्डादावधिकाराभावसूचनादत्र च तत्समर्थनात् ।


> अत्र सन्दर्भिताङ्ग्लानुवादे एवं पादटिप्पणी दत्ता (p.182) -
>
> //That is, saying the 'praiSha', which is a formula, meaning, 'I renounce
> the bhUrloka, the bhuvarloka and the suvarloka.' In these words the
> renouncer declares himself free *from all desires and all
> conditions*belonging to this world or the next.//
>
> प्रकृतवासनात्यागप्रकरणे विद्यारण्यचरणैः
> प्रैषमन्त्रबोधित*सर्वकामत्यागं*वासनात्यागप्रकरणेऽतिदिश्य तद्वदुक्तम् ।
>

स च प्रैषः मुख्यसंन्यासिनामेवेति प्रागेव तैरुक्तम् । अतो
मुख्यसंन्यासिनामेवैषा वार्त्तात्र या प्रैषपदघटिता ।

नात्र तैः सन्न्यास्येव मनसि
> कृत्वोक्तम् इति वक्तुं शक्यते । प्रैषमन्त्रोऽयं त्यागसामान्यात्
> वासनात्यागेच्छुभिरपि उच्चार्यताम् इति ।


मिथ्यैषा वाणी । त्यागमात्रेण न प्रैषाधिकारप्राप्तिः । मूले 'अयं च वेदनहेतुः
सन्न्यासो द्विविधः -
जन्मापादककाम्यकर्मादित्यागमात्रात्मकः,प्रैषोच्चारणपूर्वक*दण्डधारणाद्याश्रमरूपश्चेति*
।' - इति संन्यासयोर्भेदेनाभिधानात् ।


> तत्र मन्त्रोच्चारणेऽनधिकारिणां तु
> भाषया इति ।
>
तव व्याख्यानस्य परीक्षेयमित्थं -
मन्त्रोच्चारणेऽनधिकारिणः के । स्त्रीशूद्रादयोऽन्ये वा ।
नाद्यः , त्यागसामान्येन प्रैषाधिकारस्य त्वया समर्थितत्वादधिकारित्वमेव तेषां
तव मते ।
न द्वितीयः । तथा हि केऽन्ये - मुमुक्षवो द्विजाः वा अमुमुक्षवो वा ।
नाद्यस्तेषां प्रैषाधिकारित्वात् । नान्त्यः , मुमुक्षाभावेन
सङ्कल्पाप्रसक्तेः ।
अत एव प्रैषेण सङ्कल्पः संन्यासिनां वासनापरिहाराय , मुमुक्षूणां
स्त्रीशूद्रादीनान्तु प्रैषानधिकारिणां भाषयेति - विवेकः ।


> अपि च यदि सन्न्यासिविषय एव प्रकृते इति वदामः तर्हि पूर्वं सन्न्याससमये एव
> प्रैषमन्त्रोच्चारणात् सर्वकामत्यागः संकल्पितः । किं तेन तदा वासनात्यागः
> बहिष्कृतो वा येन पुनः अन्यस्मिन् सन्दर्भे तदर्थं विशिष्य पुनः
> प्रैषोच्चारणापेक्षा?
>

संन्यासकाले उच्चरितस्यैव प्रैषस्य वासनापरिहारे सङकल्पत्वेन
विनियोगायैतत्स्पष्टीकरणमत्रेत्यवधेयम् । अपि च संन्यासिनः प्रतिदिनं
प्रैषमुच्चारयन्त्यवधानाय । अथवा प्रतिदिनं नवीन एव सङ्कल्पः ,
सन्ध्यादिसङ्कल्पवत् ।

यद्भवदुक्तं - अतः प्रैषं विनापि भाषया संन्याससङ्कल्पस्सम्भवति इति
> विद्यारण्यानामपकीर्त्तये एवोक्तं स्यात् । इति तत्रेदमुच्यते -
>
> पूर्वोक्तस्त्रीणामपि सन्न्यासेऽधिकाराङ्गीकारात् तैरपि
> मन्त्रोच्चारणेऽधिकाराभावात् भाषया सन्न्यासनिमित्तसंकल्पमनुमातुं शक्यते ।
>

स्वग्रन्थस्य पूर्वापरविरोधं पश्यात्र । पूर्वं त्यागसामान्येन प्रैषेऽधिकार
उक्त इदानीं भाषया सङ्कल्प उच्यते इति ।


> एवमेव स्त्रयन्येषां मन्त्रानधिकारिणामपि सन्न्यासेऽधिकारसद्भावे अस्ति
> आचार्येषु मध्ये अभिप्रायविप्रतिपत्तिः । आहत्य एतादृशसन्न्यासस्वीकारसमये
> भाषाप्रयोगस्य कल्पनं न दोषाय ।
>

एतत्सर्वममूलम् । प्रसिद्धे प्रस्तुते सम्प्रदायानुकूले
व्याख्यानेऽनुपपत्त्यभावाच्च नैषा नूतनकल्पना युज्यते ।


More information about the Advaita-l mailing list