[Advaita-l] ’upAsana' and 'bhakti'

V Subrahmanian v.subrahmanian at gmail.com
Wed Mar 7 04:41:12 CST 2012


2012/3/7 श्रीमल्ललितालालितः <lalitaalaalitah at lalitaalaalitah.com>

> *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com/>
> lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*
>
>
>
>
>
> प्रकरणमेतद्वासनात्यागस्य । स च न सम्भवति , अमूर्त्तत्वात् - इति शङ्का ।
> तन्निवारणायामूर्त्तनामपि भुजिक्रियानिद्रादीनामुपवासजागरणादिरूपं
> त्यागमभिहितम् । तद्वदेव वासनादीनाममूर्त्तानां त्याग उपपादितः ।
> ननु न भोजनत्यागादिना वासनात्यागस्य साम्यम् । तेषां मन्त्रेण
> सङ्कल्प्यानुष्ठितत्वात् । - इत्याह - अथेति ।
> वासनात्यागस्यापि मन्त्रेण सङ्कल्प्यानुष्ठानं सममित्याह - प्रैषेति ।
> संन्यासिनां प्रैषेण - भूरादिलोकत्यागसङ्कल्पात्मकेन मन्त्रविशेषेण
> लोकवासनादीनां त्यागं सङ्कल्प्याप्रमत्तत्वेनावस्थानं वासनात्यागः ।
>

नमांसि

अत्र पृच्छकः सन्न्यासिनमेव विषयीकृत्वा पृछति इति कल्पनं न युज्यते,
गमकाभावात् । तेन च विद्यारण्यैः इदमुक्तम् भवति - यथा
विशिष्टदिनाचरितोपवासजागरणादौ ’ अद्य स्थित्वा निराहारम्’ इत्यादिमन्त्रेण
संकल्पो यथा युज्यते तथैव वासनात्यागेऽपि प्रैषमन्त्रोच्चारणेन संकल्पो
युज्यते इति । यदा तादृशवासनात्यागाभिलाषी वैदिकमन्त्रानधिकारः  स तु भाषया
संकल्पयतु इति विशिष्टसमाधानम् । नैतावता पृच्छकः सन्न्यासिविषयवासनात्यागमेव
पृच्छति इति  निर्णेतुं पार्यते ।

अपि च प्रथमे प्रमाणप्रकरणे इदमुक्तम् - (उक्तग्रन्थे तृतीयपृष्ठे) -

अयं च वेदनहेतुः सन्न्यासो द्विविधः - जन्मापादककाम्यकर्मादित्यागमात्रात्मकः,
प्रैषोच्चारणपूर्वक*दण्डधारणाद्याश्रमरूपश्चेति* । ....त्यागश्च तैत्तिरीयादौ
श्रूयते - ’न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ’ (४.१२.३) इति ।
अस्मिंश्च त्यागे स्त्र्योऽप्यधिक्रियन्ते । ’भिक्षुकी’ इत्यनेन स्त्रीणामपि
प्राग्विवाहाद्वा वैधव्यादूर्ध्वं वा सन्न्यासेऽधिकारोऽस्तीति दर्शितम्; तेन
भिक्षाचर्यं मोक्षशास्त्रश्रवणमेकान्त आत्मध्यानं च ताभिः कर्तव्यम्,
*त्रिदण्डादिकं
च धार्यम्*’ इति मोक्षधर्मे चतुर्धरीटीकायां सुलभाजनकसंवादे । इति ।

अत्र सन्दर्भिताङ्ग्लानुवादे एवं पादटिप्पणी दत्ता (p.182) -

//That is, saying the 'praiSha', which is a formula, meaning, 'I renounce
the bhUrloka, the bhuvarloka and the suvarloka.' In these words the
renouncer declares himself free *from all desires and all
conditions*belonging to this world or the next.//

प्रकृतवासनात्यागप्रकरणे विद्यारण्यचरणैः
प्रैषमन्त्रबोधित*सर्वकामत्यागं*वासनात्यागप्रकरणेऽतिदिश्य तद्वदुक्तम् ।
नात्र तैः सन्न्यास्येव मनसि
कृत्वोक्तम् इति वक्तुं शक्यते । प्रैषमन्त्रोऽयं त्यागसामान्यात्
वासनात्यागेच्छुभिरपि उच्चार्यताम् इति । तत्र मन्त्रोच्चारणेऽनधिकारिणां तु
भाषया इति ।

अपि च यदि सन्न्यासिविषय एव प्रकृते इति वदामः तर्हि पूर्वं सन्न्याससमये एव
प्रैषमन्त्रोच्चारणात् सर्वकामत्यागः संकल्पितः । किं तेन तदा वासनात्यागः
बहिष्कृतो वा येन पुनः अन्यस्मिन् सन्दर्भे तदर्थं विशिष्य पुनः
प्रैषोच्चारणापेक्षा?

यद्भवदुक्तं - अतः प्रैषं विनापि भाषया संन्याससङ्कल्पस्सम्भवति इति
विद्यारण्यानामपकीर्त्तये एवोक्तं स्यात् । इति तत्रेदमुच्यते -

पूर्वोक्तस्त्रीणामपि सन्न्यासेऽधिकाराङ्गीकारात् तैरपि
मन्त्रोच्चारणेऽधिकाराभावात् भाषया सन्न्यासनिमित्तसंकल्पमनुमातुं शक्यते ।
एवमेव स्त्रयन्येषां मन्त्रानधिकारिणामपि सन्न्यासेऽधिकारसद्भावे अस्ति
आचार्येषु मध्ये अभिप्रायविप्रतिपत्तिः । आहत्य एतादृशसन्न्यासस्वीकारसमये
भाषाप्रयोगस्य कल्पनं न दोषाय ।

वासनात्यागप्रकरणेऽपि अधिकारिणां प्रैषमन्त्रोच्चारणपूर्वकसंकल्पत्यागो
यदभिप्रेतः तन्मन्त्रार्थकभषाप्रयोग एव अन्येषां विषयेऽभिप्रेत इति स्फुटम् ।
अन्यथा अपवादस्य (exception) आनर्थक्यं स्यात् । एवं सन्न्यासविषयेऽपि इति
बोध्यम् ।


subrahmanian.v


More information about the Advaita-l mailing list