[Advaita-l] शांकरभाष्ये गौतममण्डनम्

V Subrahmanian v.subrahmanian at gmail.com
Thu Oct 20 05:03:18 CDT 2011


’तत्तु समन्वयात्’ (१.१.४.४.) इति बादरायणसूत्रभाष्यावसरे श्रीशंकरभगवत्पादैः
एवमभिहितम् -


’त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. ६.८) ’श्रुतं
ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि त्वं मा
भगवच्छोकस्य पारं तारयतु’ (छान्दो. ७.१.३) ’तस्मै मृदितकषायाय तमसः पारं
दर्शयति भगवान्सनत्कुमारः’(छान्दो. ७.२६.२) इति चैवमाद्याः श्रुतयो
*मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य
फलं दर्शयन्ति*   ।

*तथाचाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्
’दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’
(न्या. सू. १.१.२) इति।* मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति ।
इति ।


अत्र न्यायशास्त्रसूत्रकृद्गौतमर्षिः अत्यादरेणाचार्यनाम्ना निर्दिष्टः भाष्ये
। यद्यपि न्यायमतस्य सैद्धान्तिकरीत्या निराकरणं वर्तते तत्र तत्र वेदान्ते
तथापि ’परमतमप्रतिषिद्धमनुमतं भवति’ इति न्यायेन यदविरोधित्वेन ग्राह्यांशः
तस्य श्लाघनं द्रष्टव्यमत्र ।


उक्तसूत्रस्यार्थः एवं प्रदर्श्यते -


दुःखस्य हेतुर्जन्म । तस्य कारणं प्रवृत्तिः धर्माधर्मरूपा । तस्याश्च मूलं
रागद्वेषमोहाख्यदोषः । एतादृशदोषस्तु देहाद्यनात्मसु
अहमित्यभिमानरूपमिथ्याज्ञानम् । तत्र सम्यग्ज्ञानेन मिथ्याज्ञानापोहे
तत्कृतदोषापायः । तेन च जन्मप्रदप्रवृत्त्यभावः । जन्माभावे दुःखाभाव इति
एकैकस्य कारणनाशात् तत्कृतकार्यनाशप्रक्रिया अत्र शांकरभाष्ये
न्यायोपबृंहितशब्देन परामृष्टा ।


http://en.wikipedia.org/wiki/Ny%C4%81ya_S%C5%ABtras#Purpose_of_the_Nyaya_Sutras


"*Gautama Ṛṣi*, in his *Nyāya Sūtras*, proposes that one can attain
liberation by negating both illusion and unhappiness:
duhkha-janma-pravṛtti-dosa-mithyā-jnananam uttarottarapaye
tad-anantarabhavad (apayat)apavargah. "By successively dispelling false
conceptions, bad character, entangling action, rebirth and misery -- the
disappearance of one of these allowing the disappearance of the next -- one
can achieve final liberation." (Nyāya Sūtra 1.1.2)


ओं तत् सत्

सुब्रह्मण्यशर्मा

बेंगलूरु


More information about the Advaita-l mailing list