[Advaita-l] Application of pUrvamImAMsA nyAya to advaita vedanta

Anand Hudli anandhudli at hotmail.com
Wed Nov 9 23:08:45 CST 2011


ज्योतिष्टोमयागस्यायं प्रसङ्गः। यदा प्रातःसवने बहिष्पवमानेन स्तोष्यमाणा
सर्वे ऋत्विजः यागशालाया बहिः प्रसर्पन्ति तदानीमेकस्य पृष्ठतोऽन्य इति
पङ्क्त्याकारेण गच्छन्ति। तत्र पुरतो गच्छतः ऋत्विजः कच्छं गृहित्वा
पृष्ठतोऽन्येन गन्तव्यम्। प्रमादाद्यदि सामवेदी
ऋत्विक् उद्गाता गृहीतं पुरतो गच्छतः कच्छं मुञ्चेत् तर्हि ऋत्विग्भ्यो
दक्षिणां अदत्वा एव यज्ञः समापनीयः। किंच तं यज्ञं समाप्य पुनरपि
यज्ञोऽनुष्ठेयः। यदि ऋत्विक् प्रतिहर्ता कच्छं मुञ्चेत् तदा तस्मिन्नेव यज्ञे
सर्वस्वं दद्यात्।
यदा पौर्वापर्येण द्वयो: ऋत्विजोः उद्गातृप्रतिहर्त्रोरपच्छेदे किं
प्रायश्चित्तम्?
तत्र पूर्वमीमांसासूत्रस्य "पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्" (६.५.५४)
शाबरभाष्ये अयं सन्देहस्तत्परिहारश्च -
"यत्र आनुपूर्व्येण भवति अपच्छेदः किं पूर्वनिमित्तं प्रायश्चित्तं, उत
उत्तरनिमित्तं इति भवति संशयः। किं प्राप्तम्? (पूर्वपक्षः-) पूर्वस्य
बलीयस्त्वम्। पूर्वापच्छेदे यत् नैमित्तिकं प्राप्तं, तस्मिन् सति तद्विरुद्धं
न शक्यं कर्तुम्। न चाशक्यमुपदेशार्हं भवति। पूर्वविज्ञानं प्राप्तमिति न
संशयः। तस्मात् तदविरोधेन अन्यत् कार्यं, न विरुद्धम्। क्व तर्हि तत् स्यात्?
यत्र केवलं निमित्तम्। तस्मात् पूर्वविज्ञानं बलवत्। एवं प्राप्ते ब्रूमः।
(सिद्धान्तः) पौर्वापर्ये पूर्वदौर्बल्यं स्यात्। .... तस्मात्
परबलीयस्त्वमिति न्याय्यमेवेति" इति।
टुप्टीकायाम् इदमुक्तं भाट्टपादैः - "पौर्वापर्योत्पत्तावपि निमित्तयोः
तन्नैमित्तिकप्राप्तौ पूर्वेण न्यायेन विकल्पः इति पूर्वः पक्षः। अत्र
पूर्वबलीयस्त्वेन पक्षान्तरम्। ततः तद्दौर्बल्यात् परबलीयस्त्वमिति
सिद्धान्तः" इति।
अयं न्यायः अपच्छेदन्यायः परप्राबल्यन्यायः। ज्योतिष्टोमे यागे क्रमेणापच्छेदे
उत्तरकालीनापच्छेदनिमित्तकं प्रायश्चित्तं कर्तव्यम्, न तु
पूर्वकालीनापच्छेदनिम्मित्तकं प्रायश्चित्तम्।
वाक्यद्वयात् द्वे ज्ञाने अन्योन्यनिरपेक्षे एव उत्पद्येते। उत्पद्यमानं
उत्तरकालीनं परज्ञानं पूर्वज्ञानं बाधित्वैव प्रादुर्भवति। पूर्वज्ञाने एवं
चोत्तरकाले बाधिते सति, न तत् परज्ञानस्य बाधको भवितुमर्हति।  परज्ञानं
अबाधितमेव वर्तते यतः न च  परज्ञानसय अन्यं बाधकमुपलभ्यते।
अथ अद्वैतवेदान्ते अपच्छेदन्यायस्य आनन्दबोधाचार्यकृतप्रमाणमालाग्रन्थरत्ने
प्रयोगः। प्रत्यक्षप्रामाणजनितद्वैतसत्यत्वस्य ज्ञानं पूर्वज्ञानं उत्तरकालीनं
"नेह नानास्ति किञ्चन"
इत्याद्यद्वितीयब्रह्मप्रतिपादकवेदान्तवाक्यजनितद्वैतमिथ्यात्वस्य ज्ञानं
परज्ञानम्। अत्र द्वैतसत्यत्वस्य पूर्वज्ञानं द्वैतमिथ्यात्वस्य दोषरहितेन
परज्ञानेन बाधितं भवति, अपच्छेदन्यायात्।

आनन्द:


More information about the Advaita-l mailing list