[Advaita-l] Modern science and Vedanta

Rajaram Venkataramani rajaramvenk at gmail.com
Wed Jun 29 00:49:47 CDT 2011


All dots. How to get sanskrit on blackberry?

On 29/06/2011, Venkatesh Murthy <vmurthy36 at gmail.com> wrote:
> विशिष्टं ज्ञानं विज्ञानम् । कस्यचिदपि विषयस्य पदार्थस्य वा
> प्रत्यवयवानां विवेचनेन प्राप्तं ज्ञानं विज्ञानम् । सांप्रतिकं युगं
> विज्ञानस्य  युगमस्ति । अस्मिन् युगे विज्ञानं अत्यन्तशक्तिरुपमस्ति ।
> युगे अस्मिन् भक्षणश्रवणभ्रमणप्रेषणगमनशयनादिकार्याणि विज्ञानेन विना
> अस्वाभाविकानि प्रतीयन्ते । तेन मानावानां बहूपकारः कृतः ।
>
> यथा एकतः विज्ञानं मानवानां कृते अनेकलाभान् लाति तथैव तेन बहवः हानयः
> अपि दृश्यन्ते । अपकृतानि लक्ष्यन्ते । विज्ञानेन निर्मितानि
> युद्धयन्त्राणि मानवानां विनाशकराणि सन्ति ।  यदि कदाचित् परमाणुयुद्धं
> प्रारभ्यते तर्हि विश्वस्य प्रलयमपि निश्चितमस्ति । मानवानां चतुर्षु
> दिक्षु वातावरणं दोषयुक्तं भवति । तेन अनेकाः व्याधयः प्रादुर्भूताः
> भवन्ति । विज्ञानस्य प्रभावेण जीवनं धर्महीनं चरित्रहीनं स्वास्थ्यहीनं
> मनोबलहीनं कर्मठताहीनं सालसं च दृश्यते । अस्य प्रभावेण जनाः केवलं
> घोरभौतिकवादिनः चार्वाकाः वा भवन्ति यस्मात् कारणात् तेषां ध्यानं
> स्वल्पमपि आध्यात्मिकविषये नास्ति । एतादृशाः जनाः कथं समुन्नतिं कर्तुं
> समर्थाः स्युः इति विचारणियो विषयः ।  कथं मानवानां विकासः भवति इति
> वरणयितुं न शक्यम् ।
>
> अभिवादाः
>
> -वेङ्कटेशः
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>

-- 
Sent from my mobile device


More information about the Advaita-l mailing list