[Advaita-l] Modern science and Vedanta

Venkatesh Murthy vmurthy36 at gmail.com
Tue Jun 28 23:10:24 CDT 2011


विशिष्टं ज्ञानं विज्ञानम् । कस्यचिदपि विषयस्य पदार्थस्य वा
प्रत्यवयवानां विवेचनेन प्राप्तं ज्ञानं विज्ञानम् । सांप्रतिकं युगं
विज्ञानस्य  युगमस्ति । अस्मिन् युगे विज्ञानं अत्यन्तशक्तिरुपमस्ति ।
युगे अस्मिन् भक्षणश्रवणभ्रमणप्रेषणगमनशयनादिकार्याणि विज्ञानेन विना
अस्वाभाविकानि प्रतीयन्ते । तेन मानावानां बहूपकारः कृतः ।

यथा एकतः विज्ञानं मानवानां कृते अनेकलाभान् लाति तथैव तेन बहवः हानयः
अपि दृश्यन्ते । अपकृतानि लक्ष्यन्ते । विज्ञानेन निर्मितानि
युद्धयन्त्राणि मानवानां विनाशकराणि सन्ति ।  यदि कदाचित् परमाणुयुद्धं
प्रारभ्यते तर्हि विश्वस्य प्रलयमपि निश्चितमस्ति । मानवानां चतुर्षु
दिक्षु वातावरणं दोषयुक्तं भवति । तेन अनेकाः व्याधयः प्रादुर्भूताः
भवन्ति । विज्ञानस्य प्रभावेण जीवनं धर्महीनं चरित्रहीनं स्वास्थ्यहीनं
मनोबलहीनं कर्मठताहीनं सालसं च दृश्यते । अस्य प्रभावेण जनाः केवलं
घोरभौतिकवादिनः चार्वाकाः वा भवन्ति यस्मात् कारणात् तेषां ध्यानं
स्वल्पमपि आध्यात्मिकविषये नास्ति । एतादृशाः जनाः कथं समुन्नतिं कर्तुं
समर्थाः स्युः इति विचारणियो विषयः ।  कथं मानवानां विकासः भवति इति
वरणयितुं न शक्यम् ।

अभिवादाः

-वेङ्कटेशः


More information about the Advaita-l mailing list