[Advaita-l] Brahmin Bridegrooms in rural places not getting brides

Venkatesh Murthy vmurthy36 at gmail.com
Sat Jul 9 00:07:34 CDT 2011


अद्यतनयुवकाः परंपरागतं स्वस्वकुलस्य वृत्तिम् अनिच्छंतः केवलं
धनेन्द्रियसुखप्राप्त्यर्थं ऐ.टी.-बी.टी. इत्यादि उच्चतान्त्रिक है.टेक्.
वृत्तिमेव कुर्वन्ति । प्रायः ग्रामीणप्रदेशीययुवकाः ग्रामान् त्यक्त्वा
बेन्गलूरुचेन्नै-आदिनगारेषु उद्योगान् कुर्वन्ति वसन्ति च ।
ग्रामीणप्रदेशीयकन्याः अपि नगरेषु लभ्यसुखानां कामनाभिः चोदिताः
ग्रामीणप्रदेशीय वरान् परिणेतुं न इच्छन्ति किंतु नगरस्थान् वरानेव |
कोऽपि पिता स्वकन्यां ग्रामस्थवराय दातुं न सिद्धो भवति । इयं
बृहत्समस्या ब्राह्मणवरान् पीडयति । समस्यायाः किंचित् समाधानं करणीयम् ।
शृगेरीमठाधीशाः श्रीभारतीतीर्थस्वामिनः एवम् समस्यापीडितान्
स्मार्तब्राह्मणान् वरान् उपदिशन्ति यूयं रामानुजमध्वादिमतस्थकन्याम् अपि
मांसभक्षणादिव्यसनरहिताम् अन्यवर्णामपि कन्यां वा स्वीकुरुत इति । इति
मया वार्ता श्रूयते इदं सत्यं वा न जानामि । अत्र
ब्राह्मणविवाहसमस्याविषये विदुषाम् अभिप्रायान् श्रोतुमिच्छामि ।

धन्यवादः

-वेङ्कटेशः

Kindly reply in Sanskrit or English


More information about the Advaita-l mailing list