[Advaita-l] Krishna Janmashtami

V Subrahmanian v.subrahmanian at gmail.com
Mon Aug 22 02:57:17 CDT 2011


2011/8/22 V Subrahmanian <v.subrahmanian at gmail.com>

>
> चन्द्रार्घ्यप्रदानश्लोक एक एवं वर्तते -
> अत्रिनेत्रसमुद्भूत क्षीरोदार्णवसम्भव ।
> रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते ॥ इति ।
>
> अत्र ’रमाभ्रातर्मनःपते’ इत्यस्य कोऽर्थः?
>
> सुब्रह्मण्यः
>

प्रश्नप्रेषणोत्तरक्षणमेव इयमवगतिस्सञ्जाता -

चन्द्रवत् रमा अपि क्षीरोदार्णवसंभूता, एवञ्च चन्द्रस्य रमाभ्रातृत्वम् ।
मनसोऽधिष्टातृत्वेन मनःपतित्वं चन्द्रस्य । रमाभ्रातः इति मनःपते इति च
चन्द्रसंबोधनम् ।

सुब्रह्मण्यः


More information about the Advaita-l mailing list