[Advaita-l] Krishna Janmashtami

Anand Hudli anandhudli at hotmail.com
Mon Aug 22 01:11:35 CDT 2011


यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युथानमधर्मस्य तदात्मानं सृजाम्यहम्॥

इति वचनमनुसृत्य भगवान् विष्णुः द्वापरयुगस्यान्तकाले भारतदेशेऽस्मिन्
श्रीकृष्णरूपेणावातरत्। तदनुसारेण श्रावणमासस्य कृष्णपक्षस्याष्टम्यां तिथौ
रोहिणीनक्षत्रे निशीथकाले भगवतः श्रीकृष्णस्य जन्माभवत्। तस्य जन्मोत्सवः
श्रीकृष्णजन्माष्टमीरुपेण प्रसिद्धः। तस्य मातापितरौ देवकीवसुदेवौ। देवकी
कंसस्य भगिनी।
विवाहानन्तरं देवकीवसुदेवयोः स्वगृहं प्रत्यागमनकाले मार्गे एकाकाशवाणी सञ्जाता
यदनयोः अष्टमगर्भादुत्पन्नो बालकः कंसं हनिष्यति इति। तस्या भीतः कंसो देवकीं
हन्तुमुद्यतोऽभवत्। किंतु "अवध्याः स्त्रियः" इति वसुदेवस्य वचनात् तथा च
"अस्याः सर्वान् पुत्रान् तुभ्यं समर्पयामि" इति प्रतिज्ञातः सन्तुष्टः कंसः
देवकीवसुदेवौ कारागारे निक्षिप्तवान् । तयोश्च नवजातान् सप्तशिशून्
निर्दयतापूर्वकेनाहनत्। अष्टमः शिशुः श्रीकृष्णः कठोरकारागारे प्रादुरभवत्।
तदानीं शिशुः अवदत् ’मां नन्दगोपस्य गृहे यशोदापार्श्वे नीत्वा तत्र
यशोदागर्भात् संभूतां कन्याम् अत्र समानय’। पित्रा वसुदेवेन तथैव कृतम्। अनया
घटनया सर्वे कारागाररक्षका अनभिज्ञा आसन्। परेद्युः कारागाररक्षकैः
शिशूत्पत्तिं श्रुत्वा कंसस्तत्र शीघ्रमागत्य तामेव योगमायां कन्यां
हन्तुमुद्यतोऽभवत्। किंतु आकाशे उत्सर्पत्या कन्यया एवमुक्तं यत् किमर्थं मां
मारयितुं प्रयत्नं करोषि तव हन्ता त्वन्यत्र वर्धते इति।

श्रीकृष्णः नन्दगोपगृहे यशोदया पोषितः शुक्लपक्षचन्द्र इव अवर्धत । शैशवकाले एव
कंसप्रेषितान् अनेकराक्षसानहनत्। बाल्यकाले यमुनातटे अन्यैः गोपबालकैः सह धेनूः
अचारयत्। गोपिकानां मनांसि अचोरयत्। तासां मनस्तु कन्दर्पजनके मदनमोहने
श्रीकृष्णे सदासक्तं आसीत्। गोपीषु राधा श्रीकृष्णस्य अतिप्रिया आसीत्।

श्रीकृष्णः अन्ततः कंसमप्यहनत्। महाभारतयुद्धे सारथिरूपेण अर्जुनस्य
महत्साहायमकरोत् यस्य फलतः सर्वे कौरवा विनाशिताः पाण्डवाश्च विजयिनोऽभवन् ।
अतः श्रीकृष्णजन्माष्टमीरात्रौ श्रीकृष्णाय अर्घ्यप्रदानं महाफलप्रदम्।
चन्द्रस्य अर्घ्यमन्त्रौ-
क्षीरोदार्णवसंभूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं शशाङ्केश रोहिणीसहितो मम ॥
रोहिणीसहितचन्द्रमसे इदमर्घ्यं समर्पयामि ।
ज्योत्स्नापते नमस्तुभ्यं ज्योतिषां पतये नमः।
नमस्ते रोहिणीकान्त अर्घ्यं नः प्रतिगृह्यताम्॥
रोहिणीसहितचन्द्रमसे इदमर्घ्यं समर्पयामि ।
श्रीकृष्णस्य अर्घ्यमन्त्रः-
जातः कंसवधार्थाय भूभारोत्तारणाय च ।
कौरवाणां विनाशाय दैत्यानां निधनाय च ॥
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे ॥
देवकीसहितश्रीकृष्णाय इदमर्घ्यं समर्पयामि ।
इति शङ्खेनार्घ्यं दद्यात् ।

आनन्दः


More information about the Advaita-l mailing list